अध्यास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्यास¦ पु॰ अधि + अस--क्षेपे घञ्। मिथ्याज्ञाने
“आहकोऽयमध्यासो? नामेति प्रश्ने
“स्मृतिरूपः परत्रपूर्ब्बदृष्टावभास” इति शा॰ भाष्यम्। स्मृतेः रूपमिव रूप-मस्य संस्कारप्रभवत्वात्। परत्र अन्यस्मिन् स्वभिन्ने स्वाभा-ववति च पूर्ब्बदृष्टस्य पूर्ब्बानुभूतस्यावभासो ज्ञानम्। यथा शुक्तौ रजतभिन्नायां पूर्ब्बदृष्टस्य रजतस्याभेदज्ञानम्,स्वाभाववति च स्फटिके पूर्ब्बानुभूतस्य लोहितरूपस्य वाज्ञानम्। तथाभूते मिथ्याभूतज्ञाने। तत्र चाध्यासे अधि-ष्ठानशुक्त्यादौ इन्द्रियसंप्रयोगे सत्यपि तस्य विशेषरूपेणा-ज्ञानात् सामान्याकारेण इदन्त्वादिरूपेण ज्ञानं, सादृ-श्यज्ञानम्, आरोप्यमाणस्य संस्कारश्चेति कारणत्रयं सतिच तस्मिन् चाकचक्यादिदोषविशेषात् अधिष्ठानविशेष-ज्ञानं प्रतिरुध्य, रजतादिसंस्कारे चोद्बोधिते तत्रानिर्वचनीयंरजतादिकं शुक्त्याद्यज्ञानेनोत्पाद्यते तदाकारवृत्तिश्च जन्यतेतत्र आविद्यिकरजताद्यनुत्पत्तौ इदं रजतं पश्यामीत्याद्यनु-भवानुपपत्तिः नच स्मरणेन तस्योपपत्तिः स्मरणस्य विषया-प्रवर्त्तकत्वात् तदुत्तरं प्रवर्त्तते च तत्तद्ग्रहणाय सर्वः। नापि अलौकिकप्रत्यक्षरूपता साक्षात्करोमीत्यनुभवस्यसाक्षात्कारविषयत्वात् अन्यथानुमानादीनामपि अलौकि-कप्रत्यक्षत्वापत्तेः तत्पूर्ब्बं नियतं तत्तज्ज्ञानस्यावश्यम्भावेनविशिष्टालौकिकप्रत्यक्षापत्तेर्दुनैवारत्वात् अतः तत्तद्ग्रह-णाय प्रवर्त्तकस्य तत्तज्ज्ञानस्य प्रत्यक्षत्वसमर्थनाय अनि-र्वचनीयं रजतादिकम् अधिष्ठानाज्ञानेन तत्राधिष्ठाने उत्-पद्यते इति कल्प्यं प्रत्यक्षे हि विषयसन्निकर्षः कारणेत्वेन कॢप्तः[Page0141-a+ 38] देशान्तरस्थरजतादिकं तु न इन्द्रियसन्निकृष्टमित्यगत्या तथाकलप्यते। अतएव श्रुतौ
“यत्र द्वैतमिव भवति तदितरइतरत् पश्यतीति”
“अथ रथान् रथयोगान् पथः सृजते” इति च जागरे द्वैतस्य इवशब्देन मिथ्यात्वं सूचितम्। स्वप्न च रथादेः स्पष्टं सृष्टिरुक्ता। तथाच ब्रह्मणि जगदादे-रनिर्वचनीयस्य तदज्ञानेनोत्पत्तिः। इयांस्तु विशेषःरजतादेः स्वप्नरथादेश्च प्रतीतिसमकालत्वं, वियदादेस्तु व्यव-हारिकत्वम्।
“देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितःलौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयादित्युक्तेः व्यव-हारकाले वियदादिप्रमेयाणां सत्यत्वं,
“परमार्थदृष्ट्यातु मिथ्यात्वमिति”
“अन्यदार्त्तमित्यादि” श्रुत्या चब्रह्मभिन्नानां मिथ्यात्वावगमात्। अधिकमाकरे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्यास¦ n. (-सं)
1. Inhabiting as chief, residing in, presiding over or ruling.
2. Sitting on or upon.
3. Transferring.
4. Attributing erroneously the nature of one thing to another, as of eternity to matter, &c. E. अधि before, आस to sit, affix घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्यासः [adhyāsḥ], [अस्-घञ्]
False attribution, wrong supposition (गिथ्याज्ञनम्, अतस्मिंस्तद्बुद्धिः or अयथार्थानुभवः); स्मृतिरूपः परत्र पूर्वदृष्टावभासः; for full explanation see Ś. B.8-22 and अध्यारोप also.
An appendage.
Putting down upon; पादाध्यासे शतं दमः Y.2.217.
अध्यासः [adhyāsḥ], See Under अध्यस्.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्यास/ अध्य्-आस m. See. s.v.
अध्यास/ अध्य्-आस m. (2. अस्) , imposing (as of a foot) Ya1jn5.
अध्यास/ अध्य्-आस m. (in phil. )= अध्य्-आरोप
अध्यास/ अध्य्-आस m. an appendage RPra1t.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्यास पु.
एक पद्य में पूर्ववर्ती पद के स्थान पर पद का विकल्पन, आश्व.श्रौ.सू. 8.8.6 एवं टीका; ‘महानामनी’ में एक विशिष्ट अभिव्यक्ति का नाम (टीका-महानामनीषु अध्यासेषु पदेषु षष्ठं षष्ठम् अक्षरं प्रतिहारो भवति), ला.श्रौ.सू. 7.5.6; अध्यासो-----अष्टाक्षरः, निदा.सू. 3.13।