चित्रगुप्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्रगुप्तः, पुं, (गुप रक्षणे + भावे क्तः । चित्राणां जीवकृतपापपुण्यादिविचित्राणां गुप्तं गोपनं रक्षणं यस्मात् । यद्वा, चित्रंविचित्रं गुप्तं धर्म्मस्य रक्षणं यस्य ।) चतुर्द्दशयमान्तर्गतयमः । तस्य लेखकः । इति मेदिनी । ते, १९८ ॥ तस्योत्- पत्तिर्यथा, -- “ब्रह्मपादांशतः शूद्रमसीशौ द्बौ बभूवतुः । एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात् ॥ कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः । वगलेति महाविद्यां गृहीत्वा साधयन् मुदा ॥ सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः । वरं याचितवान् भक्त्या त्रिलोकाधिपतिं, गुरो ! ॥ कृपया कुरु मां नाथ ! त्वमेव वगला मम । गुरुणापि वरो दत्तो राज्यं भुक्त्वा पुनर्भवान् ॥ त्रिलोकाधिपतिर्भूत्वा मुदा तत्र सुखिष्यति । गुर्व्वाज्ञया मसीशः स राज्यभोगी द्विजार्च्चनात् ॥ विहाय देहं भूयश्च त्रिधारूपो बभूव ह । चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः ॥ स्वर्गे मर्त्ये च पाताले राजते चिरमुत्तमः । चित्रमुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः ॥ पुत्त्रान् याचितवान्नैव गुरोर्देवत्वमावहन् । यमान्तिस्थो बभूवापि स्वर्मर्त्याधोविवेचकः ॥ चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके । यद्वदेत् सकलानान्तु तदेवाभोजयेद्यमः ॥” इत्याचारनिर्णयतन्त्रम् ॥ अस्योत्पत्त्यन्तरं कायस्थशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्रगुप्त¦ पु॰ यमभेदे
“चित्रगुप्ताय वै नमः” यमतर्पण-मन्त्रः। कायस्थशब्दे
१९
३३ पृ॰ तदुत्पत्त्यादिकं दृश्यम्। यमनियुक्तस्यैव तस्य यातनाधिकारित्वं शा॰ सू॰ भा॰व्यवस्थापितं यथा
“ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्म्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयोनानाधिष्ठातारः स्मर्य्यन्ते इति, नेत्याह” भा॰।
“तत्रापिच तद्व्यापारादविरोधः” शा॰ सू॰
“तेष्वपि सप्तसु नर-केषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमाद-विरोधः। यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधि-ष्ठातारः स्मर्य्यन्ते”। तस्य च संयमन्यां पापिनां प्रवोधनप्रकारः पुराणसमुच्चयेशिवधर्मोत्तरे उक्तो यथा
“निर्भर्त्सयति चात्यर्थं यमस्तान् पापकर्म्मिणः। चित्र-गुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत्। भो भो दुष्कृ-तकर्माणः! परद्रव्यापहारिणः!। गर्व्विता रूप-वीर्य्यौषैः परदारविमर्द्दकाः!। यत् स्वयं क्रियतेकर्म तत् स्वयं भुञ्जते पुनः। तत् किमात्मप्रता-पार्थं भवद्भिः दुष्कृतं कृतम्। इदानीं किं प्रत-प्यध्वं पीड्यमानाः स्वकर्मभिः। भुञ्जध्वं स्वानिकर्माणि नात्र दोषोऽस्ति कस्यचित्। एते ते पृथिवी-पालाः संप्राप्ता मत्समीपतः। स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलदर्पिताः। भो भो नृपा! दुराचाराः!प्रजाविध्वंसकारिणः!। अल्पकालस्य राज्यस्य कृते किंदुष्कृतं कृतम्?। राज्यलोभेन मोहेन बलादन्यायतःप्रजाः। विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः!। क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम्। तत्सर्वं संपरि-त्यज्य यूयमेकाकिनः स्थिताः। पश्यामस्तद्वलं णभ्यंयेन त्वद्दण्डिताः प्रजाः। यमदूतैस्ताड्यमाना अधुनाकीदृशं भवेत्”। अस्य यमलेखकत्वकथा स्क॰ पु॰ प्रभा॰ यथा
“एवन्तु स्तुवतस्तस्य चित्रस्य विमलात्मनः। तथा तुष्टः[Page2944-a+ 38] सहस्नांशुः कालेन महता विभुः। अब्रवीद्वत्स! मद्रंते वरं वरय सुव्रत!! सोऽब्रवीद्यदि मे तुष्टो भगवांस्तीक्ष्णदीधिते! ! प्रौढत्वं सर्वकार्य्येषु जायतां सन्मतिस्तथा। तत् तथेति प्रतिज्ञातं सूर्य्येण वरवर्णिनि!। ततःसर्वज्ञतां प्राप्तश्चित्रोमित्रकुलोद्भवः। तं ज्ञात्वा धर्म्म-राजस्तु बुद्ध्या परमया युतः। चिन्तयामास मेधावीलेखकोऽयं भवेद्यदि। जाता मे सर्वसिद्धिश्च निर्वृतिश्च पराभवेत्। एवं चिन्तयतस्तस्य धर्म्मराजस्य भामिनि!। अग्नितीर्थं गतश्चित्रः स्नानार्थं लवणाम्भसि। स तत्रप्रविशन्नेव नीतस्तु यमकिङ्करैः। सशरीरो महादेवि!यमादेशपरायणैः। स चित्रगुप्तनामाभूत् विश्वचारित्रलेखकः। चित्रादित्येति नामास्य ततो लोके वरानने!। सप्तम्यां नियताहारोयस्तं पूजयते नरः। सप्त जन्मानिदारिद्र्यं न दुःखं तस्य जायते”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्रगुप्त¦ m. (-प्तः)
1. A name of YAMA, or rather one of the fourteen YAMAS.
2. YAMA'S registrar, who records the vices and virtues of mankind. E. चित्र wonderful, and गुप्त preserving; or चित्र writing, and गुप्त as before.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चित्रगुप्त/ चित्र--गुप्त m. N. of one of यम's attendants (recorder of every man's good and evil deeds) MBh. xiii SkandaP. Na1rP. Va1rP. Ba1dar. iii , 1 , 15 Sch. Katha1s. lxxii
चित्रगुप्त/ चित्र--गुप्त m. (also चन्द्र-ग्W. )
चित्रगुप्त/ चित्र--गुप्त m. a secretary of a man of rank (kind of mixed caste)
चित्रगुप्त/ चित्र--गुप्त m. a form of यमTithya1d.
चित्रगुप्त/ चित्र--गुप्त m. N. of the 16th अर्हत्of the future उत्सर्पिणी, jain. L.
चित्रगुप्त/ चित्र--गुप्त m. of an author (?).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--an अधिदेवता of the planet Ketu; Icon of, near Yama. M. ९३. १५; १०२. २३; २६१. १४.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
CITRAGUPTA : A minister of Kāla. (God of death). His duty is to examine, after the death of men, a list of the good and evil actions they had done while living. (M.B. Anuśāsana Parva, Chapter 130).
_______________________________
*13th word in left half of page 184 (+offset) in original book.