गोमांस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमांसम्, क्ली, (गवां मांसम् ।) गवां पिशितम् । तद्भक्षणप्रायश्चित्तं यथा । “सुमन्तुः । गोमांस- भक्षणे प्राजापत्यञ्चरेत् । इदमज्ञानतः सकृद्- भक्षणविषयम् । यथाह पराशरः । अमम्यागमने चैव मद्यगोमांसभक्षणे । शुद्ध्यै चान्द्रायणं कुर्य्यान्नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् । अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥ इदं ज्ञानतोऽभ्यासे । शङ्खः । गामश्वं कुञ्जरोष्टौ च सर्व्वं पञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ॥ एतच्चिरकालाभ्यासे । संवत्सरकृच्छ्रव्रते पञ्च- दशधेनवः । पुनरुपनयनञ्च । यथा, विष्णुः । विड्- वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्व्वेष्वेव द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात् ।” इति प्रायश्चित्तविवेकः ॥ (अस्य गुणा यथा, -- “गव्यं केवलवातेषु पीनसे विषमज्वरे । शुष्ककासश्रमात्यग्निमांसक्षयहितञ्च यत् ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥ “श्वासकासप्रतिश्यायविषमज्वरनाशनम् । श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ अन्यत् गोशब्दे ‘गौः इत्यत्र’ द्रष्टव्यम् ॥ * ॥ हठयोगमतेनास्य पारिभाषिकोऽर्थो यथा, हठयोगप्रदीपिकायाम् । ३ । ४७ -- ४८ । “गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तमहं मन्ये इतरे कुलघातकाः ॥ गोशब्देनोच्यते जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमांस¦ न॰

६ त॰। गवां मांसे तद्गुणादि गोशब्दे

२६

८१ पृ॰उक्तं
“गोमांसभक्षणे प्राजापत्यं चरेत्” सुमन्तुः तच्चा-ज्ञानतः, ज्ञानतस्तद्भक्षणे चान्द्रायणं यथाह शातातर्पः
“अगम्यागमने चैव मद्यगोमांसभक्षणे। शुद्ध्यै चान्द्राः[Page2715-a+ 38] यणं कुर्य्यान्नदीं गत्वा समुद्रगाम्” विष्णुना तुद्विजातीनां तत्र पुनरुपनयनमुक्तं यथा
“विड्वराहग्रासकुक्कुटनरगोमांसभक्षणे सर्वेष्वेव द्विजातीनां प्रयि-श्चित्तान्ते भूयः संस्कार’ कुर्य्यात्। ”

"https://sa.wiktionary.org/w/index.php?title=गोमांस&oldid=341063" इत्यस्माद् प्रतिप्राप्तम्