मिथुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुनम्, क्ली, (मेथतीति । मिथ् + “क्षुधिपिशि मिथः कित् ।” उणा० ३ । ५५ । इति उनन् किद्भावाद्गुणाभावश्च ।) स्त्रीपुंसयो- र्युग्मम् । तत्पर्य्यायः । द्बन्द्बम् २ । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रामायणे । १ । २ । १५ । “मानिषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”) युगलम् । इति तट्टीकायां रामाश्रमः ॥ मेषादि द्वादशराश्यन्तर्गततृतीयराशिः । तत्पर्य्यायः । जितुमः २ । तच्च द्बिपदं ग्राम्यं समसंज्ञकम् । अस्योदयस्य स्थूलमानं षट्पलाधिकपञ्चदण्डाः । इति ज्योतिषतत्त्वम् ॥ अस्याधिष्ठातृदेवता गदाधारिपुरुषः वीणाधारिस्त्री च । मृगशिरः- शेषार्द्धं आर्द्रासमुदायः पुनर्व्वसोस्त्रिपादं एतै- र्भवति । तत्तु शीर्षोदयं पश्चिमदिक्स्वामिवायु- प्रकृतिहरिद्बर्णं वनस्थितं शूद्रवर्णं स्निग्धं मध्यस्त्रीसङ्गं मध्यमसन्तानञ्च । तत्र जातो जनः मृगचक्षुः मिष्टभाषी कृशः वञ्चकः धर्म्ममतिः विनयभाजनञ्च भवति । इति बृहज्जातकादयः ॥ अथ मिथुनलग्नजातफलम् । “मिथुनोदयसंजातो मानी स्वजनवत्सलः । त्यागी भोगी धनी कामी दीर्घसूत्रोऽरि- मर्द्दनः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ रात्रौ तल्लग्ननिरूपणं यथा, -- “दन्तसंख्यभवने झसाकृता- वन्तभे लसदनन्तमध्यगे । कोमलाङ्गि ! मिथुनोदयात् प्रिये ! कालखानलकलाः प्रियेऽचलन् ॥” ५ । ६ । इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन नपुं।

स्त्रीपुरुषयुग्मम्

समानार्थक:स्त्रीपुंस,मिथुन,द्वन्द्व

2।5।38।2।2

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन¦ न॰ मिथ--उनन् किच्च।

१ स्त्रीपुंसयोर्युग्ये

२ मेषादितस्तृतीये राशौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन¦ n. (-नं)
1. A couple, a pair, a brace, male and female.
2. Copu- lation.
3. Union, junction.
4. Twins.
5. A root compounded with a preposition, (in gram.) m. (-नः) The sign Gemini of the zodiac. E. मिथ् to unite, उनन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन [mithuna], a. [मिथ्-उनन् किच्च Uṇ.3.55] Paired, forming a pair, or couple. -नः Ved. A pair, couple.

नम् A pair, couple; मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ R.8.61; Me.18; U.2.5.

Twins.

Union, junction.

Sexual union, copulation, cohabitation

The third sign of the zodiac, Gemini.

(In gram.) A root compounded with a preposition.

Comp. भावः forming a couple, state of being a pair.

copulation. -यमकम् a particular kind of यमक; cf. Bk.1.12.-व्रतिन् a. practising cohabitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन mf( आ)n. paired , forming a pair

मिथुन m. a pair (male and female ; but also " any couple or pair " RV. etc. etc. , usually du. , in later language mostly n. ; ifc. f( आ). )

मिथुन n. pairing , copulation TS. etc.

मिथुन n. a pair or couple (= m. ; but also " twins ") MBh.

मिथुन n. (also m.) the sign of the zodiac Gemini or the third arc of 30 degrees in a circle Su1ryas. Var. Pur.

मिथुन n. the other part , complement or companion of anything MBh. (also applied to a kind of small statue at the entrance of a temple VarBr2S. )

मिथुन n. honey and ghee L.

मिथुन n. (in gram.) root compounded with a Preposition Siddh.

मिथुन etc. See. p. 816 , col. 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथुन न.
मार्जालीय के दक्षिण एक पर्दायुक्त (परिवृत, घिरी हुई) झोपड़ी में सम्पन्न होने वाला पुरुष और स्त्री का सम्भोग, का.श्रौ.सू. 13.3.9 (गवामयन में महाव्रत-दिन); स्त्री एवं पुरुष का युग्म (जोड़ा), जै.ब्रा. II.51।

"https://sa.wiktionary.org/w/index.php?title=मिथुन&oldid=503532" इत्यस्माद् प्रतिप्राप्तम्