चतुर्थी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्थी, स्त्री, (चतुर्णां पूरणी । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । ततः “षट् कतिपयचतुरां थुक् ।” ५ । २ । ४१ । इति थुक् । ततष्टित्त्वात् ङीप् ।) तिथिविशेषः । सा तु चन्द्रस्य चतुर्थकलाक्रियारूपा । इति स्मृतिः ॥ (चतुर्थी तु पञ्चमीयुता ग्राह्या । “युग्माग्नि- कृतभूतानि ।” इति युग्मवचनात् तथा, -- “एकादश्यष्टमी षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्ब्बेण संयुताः ॥” इत्यग्निपुराणवचनाच्च ॥ भविष्ये, -- “अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण अक्षयादपि चाक्षया ॥’ यत्तु, -- ‘चतुर्थीसंयुता कार्य्या तृतीया च चतुर्थिका । तृतीयया युता नैव पञ्चम्या कारयेत् क्वचित् ॥’ इति ब्रह्मवैवर्त्तवचनं पञ्चमीयुतानिषेधकं तद्- विनायकव्रतपरमिति गुरुचरणाः तृतीयायुता निषेधकत्वे क्वचिदित्यनुपपत्तेः सर्व्वत्रैव पञ्चमी- युताया ग्रहणात् । सारस्वत्यादिप्रदोषमाह । ‘त्रयोदश्याश्चतुर्थ्याश्च सप्तम्या द्बादशीतिथेः । प्रदोषेऽध्ययनं धीमान् न कुर्व्वीत यथाक्रमम् । सारस्वतो गाणपतः सौरश्च वैष्णवस्तथा ॥’ प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः । रात्रिपर इति निर्णयामृतकृद् भोजदेवः ॥ ‘शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् । मिथ्याभिशापं कुरुते न पश्येत्तत्र तं ततः ॥’ चतुर्थ्यां दर्शननिषेधात् तत्रोदितस्य चन्द्रस्य पञ्चम्यां दर्शने तु न दोषः । अतः, -- ‘पञ्चाननगते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥’ दैवात् प्रमादाद्वा दर्शने तु । “सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥” अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात् स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । माघमासस्य शुक्लचतुर्थ्यां गौरी पूजनीया । यथा, भविष्यो- त्तरे माघशुक्लपक्षमधिकृत्य, -- “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता । सौभाग्यमतलं कुर्य्यात्पञ्चम्यां श्रीरपि श्रियम् ॥” इति तिथ्यादितत्त्वम् ॥) तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “स्वपुत्त्रमित्रप्रमदाप्रमोदी घृताभिलाषी कृपया समेतः । विवादशीलो विजयी विवादे भवेच्चतुर्थीप्रभवः कठोरः ॥”
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्थी [caturthī], 1 The fourth day of a lunar fortnight.
The dative case (in gram.). -Comp. -कर्मन् n. the ceremonies to be performed on the fourth night of the marriage.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्थी f. ( scil. रात्रि)the 4th day in a lunar fortnight Ka1tyS3r.
चतुर्थी f. (metrically थि) VarYogay. v , 8
चतुर्थी f. " the 4th day of a marriage "See. र्थी-कर्मन्
चतुर्थी f. of थSee.