सज्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जनम्, क्ली, (सज्ज + णिच् + ल्युट् ।) रक्षणार्थं सैन्यस्थानम् । चौकीति ख्यातम् । तत्पर्य्यायः । उपरक्षणम् २ । इत्यमरः ॥ घट्टः । इति मेदिनी ॥ सज्जा च ॥

सज्जनः, पुं, (सन् चासौ जनश्चेति ।) सत्कुलो- द्भवः । तत्पर्य्यायः । महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५ साधुः ६ । इत्यमरः ॥ कुलजः ७ सम्बः ८ साधुजः ९ । इति शब्द- रत्नावली ॥ मेदिनीकारभते वाच्यलिङ्गोऽयम् । तल्लक्षणं यथा, -- दान्त उवाच । “निजाचारग्राहिणो ये कुर्व्वन्तो वेदसम्मतम् । पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ तत्सङ्गप्रशंसा यथा, -- “नलिनीदलगतजलवत्तरलं तद्वज्जीवनमतिशयचपलम् । क्षणमिह सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥” इति श्रीशङ्कराचार्य्यकृतमोहमुद्गरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जन पुं।

कुलीनः

समानार्थक:महाकुल,कुलीन,आर्य,सभ्य,सज्जन,साधु

2।7।3।1।5

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सज्जन नपुं।

सैन्यरक्षणप्रहरिकादिः

समानार्थक:सज्जन,उपरक्षण

2।8।33।1।3

निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम्. हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्.।

सम्बन्धि1 : सेना

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जन¦ न॰ सस्ज--णिच्--ल्युट्।

१ रणार्थं सैन्यस्थापने अमरः

२ घट्टे (घाटी) मेदि॰।

३ आयोजने। सन् जनः।

४ सौ-जन्यवति जने पु॰
“निजाचारग्राहिणो ये कुर्वन्ति वेदस-म्मतम्। पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः” पद्मपु॰
“कुरु सज्जनरञ्जनमिति” उद्भटः।

५ सत्कुलोद्भवेच पु॰। सस्ज--णिच्--युच्।

६ नृपादीनामारोहणार्थंगजभूषाकरणादौ स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जन¦ mfn. (-नः-ना-नं)
1. Of good family, well-born.
2. Respectable, reputable.
3. Good, virtuous.
4. Arming, putting on armour.
5. Dressing, preparing. n. (-नं)
1. A guard, a sentry, a picquet.
2. A ferry, a Gha4t.
3. Fastening.
4. Preparing.
5. Dressing. f. (-ना)
1. Caparisoning an elephant.
2. Dress, decoration.
3. Arming, accoutring. E. षसज् to go, aff. युच्; or सत् excellence, जन a person.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जनम् [sajjanam], 1 Fastening, tying on.

Dressing.

Preparing, arming, equipping.

A guard, sentry.

A ferry, ghāt. -a. Hanging round; निवीती कण्ठसज्जने Ms.2.63. -नः A good man; see under सत्.

ना Decoration, accoutrement, equipment.

Dressing, ornamenting.

Decorating an elephant before riding; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जन mfn. (for सज्-जनSee. p. 1135 , col. 1) hanging round( e.g. कण्ठ-स्, " -hhanging -rround the neck ") Mn. ii , 63

सज्जन n. a flight of steps or Ghat leading down to the water , ferry L.

सज्जन n. equipment , preparation etc. L.

सज्जन n. caparisoning an elephant (also f( आ). )

सज्जन n. a guard , sentry L.

सज्जन/ सज्-जन See. under सत्, p. 1135 , col. 1.

सज्जन/ सज्--जन mfn. (for सज्जनSee. p. 1131 , col. 2) well-born , respectable , virtuous Hariv.

सज्जन/ सज्--जन m. a good or virtuous or wise man Mn. etc.

सज्जन/ सज्--जन m. N. of various men Ra1jat. Buddh. Cat.

"https://sa.wiktionary.org/w/index.php?title=सज्जन&oldid=383725" इत्यस्माद् प्रतिप्राप्तम्