अभिवादन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादनम्, क्ली, (अभिमुखीकरणाय वादनं नामो- च्चारणपूर्ब्बकनमस्कारः, अभि + वद् + णिच् भावे ल्युट् ।) नामोच्चारणपूर्ब्बकनमस्कारः । अभि- वादये भो अमुकशर्म्माहमित्येवंरूपः । तत्तु पाद- स्पर्शपूर्ब्बकनमस्कारः । तत्पर्य्यायः । पादग्रहणं २ । इत्यमरः ॥ (“अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्द्धन्ते आयुर्विद्यायशोबलं” ॥ इति मनुः ।)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादन नपुं।
अभिवादनम्
समानार्थक:पादग्रहण,अभिवादन
2।7।41।1।2
समे तु पादग्रहणमभिवादनमित्युभे। भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादन¦ न॰ अभिमुखीकरणाय वादनं वदनम् चु॰--वद-ल्युट्, अभिमुखं वाद्यते आशीरनेन वद--णिच्--ल्युट्वा।
१ नामग्रहणपूर्ब्बकनतौ
२ पादग्रहणेन वाचा वा नतौ। तत् प्रकारो यथा
“ऊर्द्ध्वं प्राणाह्युत्क्रामन्ति यूनः स्थविरआयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्द्धन्तेआयुर्विद्या यशो बलम्॥ अभिवादात् परं विप्रो ज्यायांस-मभिवादयन्। असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत्॥ नामधेयस्य ये केचिदभिवादं न जानते। तान् प्राज्ञोऽह-मिति ब्रूयात् स्त्रियः सर्वास्तथैवच॥ भोःशब्दं कीर्त्तयेदन्तेस्वस्य नाम्नोऽभिवादने। नाम्नां स्वरूपभावोहि भोमावऋषिभिः स्मृतः॥ आयुष्मान् भव सौम्येति वाच्यो विप्रो-ऽभिवादकः (ने)। अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्ब्बा-क्षरप्लुतः॥ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्॥ नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥ ब्राह्मणंकुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्यशूद्रमारोग्यमेव च॥ अवाच्यो दीक्षितो नाम्ना यवीयानपियो भवेत्। भोभवत्पूर्ब्बकं त्वेनमभिभाषेत धर्मवित्॥ परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः। तां ब्रूया-द्भवतीत्येवं सुभगे! भगिनीति च॥ मातुलांश्च पितृव्यांश्चश्वशुरानृत्विजो गुरून्। असावहमिति ब्रूयात् प्रत्युत्थाययवीयसः॥ मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा। संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्य्यया॥ भ्रातुर्भार्य्यो-पसंग्राह्या सवर्णाहन्यहन्यपि। विप्रोष्य तूपसंग्राह्याज्ञातिसम्बन्धियोषितः॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्चस्वसर्य्यपि मातृवद्वृत्तिमातिष्ठेत् माता ताभ्यां गरीयसी॥ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्। त्र्यब्द-पूर्ब्बं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु॥ ब्राह्मणं दश-वर्षन्तु शतवर्षन्तु भूमिपम्। पितापुत्त्रौ विजानीयाद्-ब्राह्मणस्तु तयोः पिता॥ वित्तं बन्धुर्वयः कर्म विद्याभवति पञ्चमी। एतानि मान्यस्थानानि गरीयो यद्यदु-त्तरम्॥ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च। यत्रस्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः॥ चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः। स्नातकस्य चराज्ञश्च पन्था देयो वरस्य च॥ तेषान्तु समवेतानां मान्यौस्नातकपार्थिवौ। राजस्नातकयोश्चैव स्नातको नृपमानभाक्” इति मनुः
“राजर्त्विक्श्रीत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसम्बन्धिनश्चाचार्य्यवत्। पत्न्य[Page0300-a+ 38] एतेषां सर्वर्लाः। मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च॥ श्वशुर-पितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम्। हीनवर्ण्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपसंस्प-र्शनम्। गुरुपत्नीनां गात्रोत्सादनाञ्जनकेशसंयभमपाद-प्रक्षालनं न कुर्य्यात्” विष्णुः।
“पादोपसंग्रहणंगुरुसमवायेऽ-न्वहम्। अभिगम्य तु विप्रोष्य मातापितृतद्बन्धूनां पूर्व्वजानांविद्यागुरूणां तत्तद्गु{??}णाञ्च सन्निपाते परस्य। नाम प्रोच्याहमयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽमिवादतोऽनिय-ममेके न विप्रोष्य स्त्रीणाममातृपितृव्यभार्य्याभगिनीनां,नोपसंग्रहणं भ्रातृभार्य्याणां श्वश्र्वाश्च। ऋत्विक्श्वशुर-पितृव्यमातु{??}नान्तु यवीयसां प्रत्युत्थानमनभिवाद्यातपान्थःपूर्ब्बः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेनावरोऽप्यार्य्यःशूद्रेण नाम चास्य वर्जयेद्राज्ञश्चाजपः प्रेष्योभोभवन्नितिवयस्यः समानेऽहनि जातोदशवर्षवृद्धः पौरः पञ्चभिःकलाभरः{??}त्रियश्चारणस्त्रिभिः राजन्योर्वश्यः कर्मविद्या-हीनोदीक्षि{??} प्राक्{??}यात्। वित्तबन्धुकर्मजातिविद्याव-यांसि मान्यानि परवसीयांसि श्रुतन्तु सर्वेब्योगरीयस्त{??}ऊल-त्वाद्धर्मस्य श्रुतः” गौत॰। अनभिवाद्याश्च
“समिद्वार्युदकुम्भपुष्पान्नहस्तोमाभिवादयेद्यच्चाध्येवंयुक्तमिति” बौधायनः।
“जपयज्ञज{??}{??}त्पुष्पकुशानलान् दन्तकाष्ठञ्च भ{??}वहन्तं{??}दिति”{??}घुहारीतः। अन्यत्रापि।
“समित्{??}म्बु--मृदन्नाक्षतपाणिकः। जपं होमञ्चकुर्वाणोना{??}द्यो द्विजो भवेदिति” च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादन¦ n. (-नं)
1. Respectful salutation, a bow or prostration; includ- ing sometimes the name or title of the person so addressed, and followed by the declaration of the person's own name.
2. Saluta- tion of a superior or elder, by a junior or inferior, and especially of the teacher by his disciple.
3. In general it is merely lifting the joined hands to the forehead, and saying, अहमभिवादये I salute. E. अभि in presence of, and वादन speaking.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादन/ अभि-वादन n. respectful salutation (including sometimes the name or title of the person so addressed and followed by the mention of the person's own name)
अभिवादन/ अभि-वादन n. salutation (of a superior or elder by a junior or inferior , and especially of a teacher by his disciple ; in general it is merely lifting the joined hands to the forehead and saying अहम् अभिवादये, I salute).