सांख्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांख्यम्, क्ली, (संख्या सम्यग्ज्ञानं सा अस्त्यत्रेति । संख्या + अण् ।) सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति संख्या सम्यक् ज्ञानं तस्यां प्रकाशमानमात्मतत्त्वं सांख्यम् । इति श्रीभगवद् गीताटीकायां श्रीधरस्वामी ॥ षड्दर्शनान्तर्गत- दर्शनशास्त्रविशेषः । तत्पर्य्यायः । कापिलम् २ । इति हेमचन्द्रः ॥ यथा, -- “पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥” इति श्रीभागवते । १ । ३ । १० ॥ करुणया सृष्टिः सृष्ट्या कारुण्यमिति तस्माद- चेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य मह- दादिरूपेण परिणामः पुरुषार्थप्रयुक्तप्रधान- पुरुषसंयोगनिमित्तः । यथा । निर्व्व्यापारस्या- व्यायस्कसन्निधानेन लोहितस्य व्यापारः । तथा निर्व्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्या- पारो युज्यते । प्रकृतिपुरुषसम्बन्धश्च पङ्ग्वन्धवत् परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि भेदाग्रहा- द्बुद्धिच्छाया पत्न्या तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनः । न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । यथा स्वलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ देवकृतादुपप्लवात् परि- त्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रमन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेताम् । तत्र चान्धेन पङ्गुः स्कन्धमारोपितः पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपि स्कन्धाधिरूढः तथा परस्परापेक्षप्रधानपुरुष- निबन्धनः सङ्गः पुरुषस्य दर्शनार्थं कैवल्यार्थतया प्रधानस्य पङ्ग्वन्धवत् उभयोरपि सम्बन्धस्तत्कृतः सर्गः इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी पुनर्भर्त्तारं नापैति यथा वा कृतप्रयोजना नर्त्तकी नर्त्तने तथा प्रकृतिरपि यथोक्तं रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथा नृत्यात् पुरुषस्य तथानन्दं प्रकाश्य निवर्त्तते प्रकृतिरिति । तदर्थं निरीश्वरसांख्य- शास्त्रप्रवर्त्तककपिलानुसारिणां मतमुपन्यस्तम् । इति माधवाचार्य्यकृतसर्व्वदर्शनसंग्रहे सांख्य- दर्शनम् ॥ अस्य चत्वारः अध्यायाः । तत्र प्रकृतिपुरुषयोरुभयोः सृष्टिकर्त्तृत्वं अन्धपङ्गु- न्यायेन स्थापितम् । तत्त्वानां संख्यानञ्च कृतम् । इति केचित् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांख्य¦ न॰ संख्यायतेऽत्र संख्या सम्यग्ज्ञानं साऽस्त्यत्र अण्।
१ सम्यगदर्शने
“एषा तेऽभिहिता सांख्ये” इति गीता[Page5269-b+ 38] सङ्ख्या मूलप्रकृत्यादिपदार्थानां गणनात्र प्रज्ञाद्यण्।
२ कपिलप्रणीते दर्शनशास्त्रभेदे परसवर्णे स ङ्ख्यमप्युभयत्र
३ सांख्योक्तयागे पु॰
“पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये सांख्य तत्त्वग्रामविनिर्णियम्” भाग॰
१ स्क॰
३ अ॰।
“सांख्यं संख्य त्मकत्वाच्च कपिला-दिभिरुच्यते” मात्स्ये
३ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांख्य¦ mfn. (-ख्यः-ख्यी-ख्यं) See साङ्ख्य |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांख्य [sāṅkhya], a. [संख्यया निर्वृत्तम् अण्]
Relating to number.
Calculating, enumerating.
Discriminative.
Deliberating, reasoning, a reasoner; त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम् Mb. -ख्यः, -ख्यम् N. of one of the six systems of Hindu philosophy, attributed to the sage Kapila; (this philosophy is so called because it 'enumerates' twentyfive Tattvas or true principles; and its chief object is to effect the final emancipation of the twenty-fifth Tattva, i.e. the Puruṣa or soul, from the bonds of this worldly existence the fetters of phenomenal creation by conveying a correct knowledge of the twenty-four other Tattvas and by properly discriminating the Soul from them. It regards the whole universe as a development of an inanimate principle called Prakṛiti q. v, while the Puruṣa is altogether passive and simply a looker-on. It agrees with the Vedānta in being synthetical and so differs from the analytical Nyāya or Vaiśeṣika; but its great point of divergence from the Vedānta is that it maintains two principles which the Vedānta denies, and that it does not admit God as the creator and controller of the universe, which the Vedānta affirms); सांख्यमिव कपिला- धिष्ठितम् K. -रूयः
A follower of the Sāṁkhya philosophy; ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् Bg.3.3; 5.5.
An epithet of Śiva. -Comp. -कारिका N. of a collection of 72 verses by Īśvara-Kriṣṇa. -प्रसादः, -मुख्यः epithets of Śiva.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांख्य mfn. (fr. सं-ख्या)numeral , relating to number W.
सांख्य mfn. relating to number (in gram. as expressed by the case-terminations etc. ) Pat.
सांख्य mfn. rational , or discriminative W.
सांख्य m. one who calculates or discriminates well , ( esp. ) an adherent of the सांख्यdoctrine Cu1lUp. MBh. etc.
सांख्य m. N. of a man Car.
सांख्य m. patr. of the Vedic ऋषिअत्रिAnukr.
सांख्य m. N. of शिवMBh.
सांख्य n. ( accord. to some also m.) N. of one of the three great divisions of Hindu philosophy (ascribed to the sage कपिल[See. ] , and so called either from " discriminating " , in general , or , more probably , from " reckoning up " or " enumerating " twenty-five तत्त्वs [See. तत्त्व] or true entities [twenty-three of which are evolved out of प्रकृति" the primordial Essence " or " first-Producer "] , viz. बुद्धि, अहंकार, the five तन्-मात्रs , the five महा-भूतs and मनस्; the twenty-fifth being पुरुषor Spirit [sometimes called Soul] which is neither a Producer nor Production [see विकार] , but wholly distinct from the twenty-four other तत्त्वs , and is multitudinous , each separate पुरुषby its union with प्रकृतिcausing a separate creation out of प्रकृति, the object of the philosophy being to effect the final liberation of the पुरुषor Spirit from the fetters caused by that creation ; the योग[See. ] branch of the सांख्यrecognizes a Supreme Spirit dominating each separate पुरुष; the तन्त्रs identify प्रकृतिwith the wives of the gods , esp. with the wife of शिव; the oldest systematic exposition of the -S सांख्यseems to have been by an author called पञ्च-शिख[the germ , however , being found in the षष्टि-तन्त्र, of which only scanty fragments are extant] ; the original सूत्रs were superseded by the -S सांख्य-कारिकाof ईश्वर-कृष्ण, the oldest manual on the -S सांख्यsystem that has come down to us and probably written in the 5th century A.D. , while the -S सांख्य- सूत्रs or -S शिव-प्रवचनand तत्त्व-समास, ascribed to the sage कपिल, are now thought to belong to as late a date as the 14th or 15th century or perhaps a little later) S3vetUp. MBh. etc. IW. 73 etc. RTL.