प्रासाद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रासादः, पुं, (प्रसीदन्त्यस्मिन्निति । प्र + सद् + “हलश्च ।” ३ । ३ । १२१ । इत्याधारे घञ् । “उपसर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ । इति उपसर्गस्य दीर्घः ।) देवभूभुजां गृहम् । इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभाग- वते । २ । ९ । ४२ । “इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष- कान् । कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ॥”) तल्लक्षणादि यथा, -- सूत उवाच । “प्रासादानां लक्षणन्तु वक्ष्ये शौनक ! तच्छृणु । चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥ चतुष्कोणं चतुर्भिश्च द्बाराणि सूर्य्यसंख्यया । चत्वारिंशाष्टभिश्चैव भित्तीनां कल्पना भवेत् ॥ ऊर्द्धक्षेत्रसमा जङ्घा जङ्घार्द्धद्बिगुणं भवेत् । गर्भविस्तारविस्तीर्णा शुकाघ्रा च विधीयते ॥ तत्त्रिभागेण कर्त्तव्या पञ्चभागेन वा पुनः । निर्गमस्तु शुकाघ्राया उच्छ्रयः शिखरार्द्धगः ॥ चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनन् । चतुर्थे पुनरस्यैव कण्ठमामलसारकम् ॥ * ॥ अथवापि समं वास्तुं कृत्वा षोडशभागिकम् । तस्य मध्ये चतुर्भागमादौ गर्भन्तु कारयेत् ॥ भागद्वादशकां भित्तिं ततस्तु परिकल्पयेत् । चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ॥ द्बिगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः । शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः ॥ चतुर्द्दिक्षु तथा ज्ञेयो निर्गमस्तु तथा बुधैः । पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ भागमेकं गृहीत्वा तु निर्गमं कल्पयेत् पुनः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥ एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् । लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥ द्बिगुणेन भवेद्गर्भः समन्ताच्छौनक ! ध्रुवम् । तद्बिधा च भवेद्भित्तिर्जङ्घा तद्विस्तरार्द्धगा ॥ द्बिगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ! । पीठं गर्भावरं कर्म्म तन्मानेन शुकाघ्रकाम् ॥ निर्गमस्तु समाख्यातः शेषं मूलवदेव तु । लिङ्गमानः स्मृतो ह्येष द्वारमानमथोच्यते ॥ * ॥ कराग्रं वेदवत् कृत्वा द्वारं भागाष्टकं भवेत् । विस्तरेण समाख्यातं द्विगुणं वेच्छया भवेत् ॥ द्वारषत् पीठमध्ये तु शेषं शुषिरकं भवेत् । पादिकं शेषिकं भित्तिर्द्वारार्द्धेन परिग्रहात् ॥ तद्बिस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् । श्रीवृक्षकादयश्चाष्टौ मध्यमाश्च उदाहृताः । तथा सिंहादयः पञ्च कनिष्ठाः शुभदा मताः ॥” इति विश्वकर्म्मप्रकाशे ५ अध्यायः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रासाद पुं।
देवानां_राज्ञां_च_गृहम्
समानार्थक:प्रासाद
2।2।9।3।2
वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रासाद¦ पु॰ प्रसीदत्यस्मिन् प्र + सद--आधारे घञ् दीर्घः। देवनृपयोर्गृहे अमरः देवगृहशब्दे
३६
७८ पृ॰ दृश्यम्
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रासादः [prāsādḥ], [प्रसीदत्यस्मिन् प्र + सद् आधारे घञ् दीर्घः]
A palace, mansion, any large palatial building; भिक्षुः कुटीयति प्रासादे Sk.; Me.66.
A royal mansion.
A temple, shrine.
A raised platform for spectators.
Terrace; ततो दुर्योधनगृहं प्रासादैरुपशोभितम् Mb.12.44.6.-Comp. -अङ्गनम् the court-yard of a palace or temple.-आरोहणम् entering or going up into a palace. -कुक्कुटः a tame pigeon. -गर्भः an inner apartment in a palace.-तलम् the surface or flat roof of a palace. -पृष्ठः a balcony on the top of a palace; अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां ...... H. -प्रतिष्ठा the consecration of a temple.-प्रस्तरः the flat roof of a house. -मण्डना a kind of orpiment. -शायिन् a. sleeping in a palace. -शिखरः, -शृङ्गम् the spire or pinnacle of a palace or temple, a turret; प्रासादशिखरस्थो$पि काकः किं गरुडायते Pt.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रासाद/ प्रा--साद See. s.v.
प्रासाद m. (for प्र-स्lit. " sitting forward " , sitting on a seat in a conspicuous place ; See. Pa1n2. 6-3 , 122 )a lofty seat or platform for spectators , terrace S3a1n3khS3r. Mn.
प्रासाद m. the top-story of a lofty building Ka1d.
प्रासाद m. a lofty palatial mansion (approached by steps) , palace , temple AdbhBr. MBh. Ka1v. etc.
प्रासाद m. (with Buddhists) the monks' hall for assembly and confession MWB. 426.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--ety. that which pleases the mind; generally a palace. वा. 8. १२७; ३५. 4; ३९. ३६; ४०. 9.