लोम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोम, [न्] क्ली, (लूयते छिद्यते इति । ल + “नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्यामन् ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः ।) शरीरस्थकेशः । तत्पर्य्यायः । तनूरुहम् २ रोम ३ । इत्यमरः ॥ तनुरुहम् ४ तनुरुट् ५ । इति शब्दरत्नावली ॥ (यथा, मुण्डकोपनिषदि । १ । १ । ७ । “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् ॥”) तत्तु गर्भस्थस्य षष्ठे मासि भवति । इति सुख- बोधः ॥ अपि च । “षष्ठे मासि च नारीणां वैदिके नाधिकारिता । उदरस्थस्य बालस्य नखलोमप्रवर्त्तनात् ॥” इति स्मृतिः ॥ (तथास्य विवृतिः । “अस्थो मलानि लोमानि असङ्ख्यानि भवन्ति हि । सन्ति यावन्ति लोमानि तावन्तो लोम- कूपकाः ॥ अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते । सन्निवेशञ्च गात्राणां नात्रास्ते कारणान्तरम् ॥” निर्वृत्तिः सिद्धिः स्वभावात् ईश्वरात् । सन्निबेशो रचनाविशेषः । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोमम्, क्ली, लाङ्गूलम् । इति जटाधरः ॥ (रोम । यथा, तैत्तिरीयसंहितायाम् । ५ । १ । ६ । २ । “अथो शन्त्वायाजलोमैः संसृजत्येषा वा अग्नेः प्रिया तणूर्यदजेति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोम¦ न॰ लू--मन्। देहजाते केशाकारे

१ रोमाख्ये द्रव्ये अमरः। तत्प्रधाने

२ लाङ्गूले न॰ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोम¦ m. (-मः) A tail, a hairy tail. E. लू to cut, aff. मन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमः [lōmḥ], 1 A tail.

The hair on the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोम in comp. for लोमन्.

लोम mfn. ( ifc. )= लोमन्(See. अज-लोम)

लोम n. a hairy tail , tail L.

"https://sa.wiktionary.org/w/index.php?title=लोम&oldid=504033" इत्यस्माद् प्रतिप्राप्तम्