सामग्री पर जाएँ

शौच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम्, क्ली, (शुचेर्भावः । शुचि + “इगन्ताच्च लघु पूर्व्वात् ।” ५ । १ । १३१ । इत्यण् ।) शुचिता । शुचित्वम् । शुद्धिः । तस्य लक्षणादि यथा, -- “अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः । स्वधर्म्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम् ॥” इत्येकादशीतत्त्वे बृहस्पतिवचनम् ॥ अन्यच्च । “सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा शुचिः ॥ सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम् ॥ यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥” इति गारुडे ११० अध्यायः ॥ अपिच । “यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यते ॥ शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त- रम् ॥” इति गारुडे २१५ अध्यायः ॥ पादादिशौचगुणा यथा, -- “मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः ॥” इति राजवल्लभः ॥ अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः ॥” इति कौर्म्मे उपविभागे २२ अध्यायः ॥ अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच¦ न॰ शुचेर्भाद्धः अण्।

१ शुद्धौ पवित्रतायाम्
“अभक्ष्य-परिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यपस्थानंशौचमित्यभिधीयते” इति वृहस्पत्युक्ते

२ धर्मविशेषे च
“सर्वेषामेव शौचानामर्थशौचं विशिष्यते। योऽथार्थैर-शुचिः शौचान्न मृदा बारिष्णा शुचिः। मलशौचं मनः-शौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जल-शौचन्तु पञ्चमम्। यस्य सत्यञ्च शौचं च तस्य स्वर्गो नदुर्लभः” गारुडे

११

० अ॰। मृदादिशौचप्रकारस्तु आ॰ त॰ दर्शितो यथादेबलः
“धर्मविद्दक्षिणं हस्तमवः शौत्ते न योजयेत्। तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत्। प्रकृतिस्थिति-रेषा स्यात् कारणादुभयक्रिया”। कारणाद्रोगादेः। ब्रह्मा{??}पु॰
“उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः। उदङ्मुखो दिवा कुर्य्यात् रात्रौ चेद्दक्षिणामुखः। सुनि-र्णिक्ते मृदं दद्यात् मृदन्ते त्वप एव च। दातव्यमुदकतावद् यावत् स्यात् मृत्तिकाक्षयः”। कुर्य्यात् शौचमितिशेषः। सुनिर्णिक्ते नरद्वाजोक्तलोष्ट्रदिप्रमृष्टे गुदे। उ-दकपात्राभावे करेण जलाशयादुदकग्रहणमाह आ-दित्यपु॰
“रत्रिमात्रं जलं त्यक्त्वा कुर्य्यात् शौचमनु-द्धृते। पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्”। य-स्मिन् प्रदेशे शौचं कर्त्तव्यं तस्मादरत्निमात्रव्यवहितं जलंतत् स्थलमेव तीर्थं जलसमीपत्वात्। विष्णुपु॰
“बल्मी-कमूषिकोत्खातां मृदमन्तर्जलां तथा। शौचावशिष्टां गे-हाच्च नादद्यात् लेपसम्भवाम्। अन्तःप्राण्यवपन्नाञ्चहलोत्खातां सकर्दमाम्”। मनुदक्षौ
“एका लिङ्गे गुदेतिस्रो दश वामकरे तथा। उभयोः सप्त दातव्या मृदःशद्धिमभीप्सता”। उभयोः करयोः। विष्णुंपु॰
“एका-लिङ्गे गुदे तिस्रो दश वामकरे तथा। हस्तद्गये च सप्ता-न्या मृदः शौचोपपादिकाः”। यमः
“लिङ्गे त्वेका गुदेतिस्रो वामहस्ते चतुर्दश। ततः पुनरुभाभ्यात दातव्याःसप्त मृत्तिकाः”। प्रैठीनसिः
“मृत्तिकां संगृह्य एका[Page5146-a+ 38] लिङ्गेऽपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त” इव्यादि। एतासां संख्यानां दक्षाद्युक्ताधिक्यं गन्धा-द्यनुवृत्तिमनुरुध्य व्यवस्थेयम्। वामहस्ते दशदानान-न्तरं तत्पृष्ठे षड्दानमाह हारीतः
“दश मध्ये च षट्-पृष्ठे इति”। शङ्दक्षौ
“तिस्रस्तु मृत्तिका देयाः कृत्वानखविशोधनम्। तिस्रस्तु पादयोर्देयाः शुद्धिकामेननित्यशः”। नखशोधनं तृणादिना नखान्तर्मलशोधनम्,तिस्र इति हस्तयोरिति शेषः। पादप्रक्षालनं कांस्ये नकर्त्तव्यमित्याह विष्णुधर्मोत्तरम्
“दर्भैर्न मार्जयेत् पादौन च कांस्येन धावयेत्”। दक्षः
“लिङ्गे तत्र समाख्या-ता त्रिपर्वी पूर्य्यते यया। अर्द्धप्रसृतिमात्रा तु प्रथमामृत्तिका स्मृता। द्वितीया च तृतीया च तदर्द्धार्द्धाप्रकीर्त्तिता”। यदा तु उक्तप्रमाणया मृदा गन्धलेप-क्षयो न भवति तदा अधिकयापि कर्त्तव्यम्।
“गन्धलेप-क्षयकरं शौचं कुर्य्यादतन्त्रितः” इति याज्ञवल्क्यात्। गुदादत्थत्र परिमाणमाह यमः
“मृत्तिका तु समुद्विष्टात्रिपर्वी पूर्य्यते यया”। त्रिपर्वी तर्जनीमध्यमानामिकानामग्रत्रयम्। मूत्रमात्रेति स्मृतिः
“एकां लिङ्गे मृदंदद्यात् वामहस्ते तु मृतत्रयम्। उभयोर्हस्तयोर्द्वे चमूत्रशौचं प्रकीर्त्तितम्”। व्रह्मपुराणे
“पादयोर्द्वेगृहीत्वा च सुप्रक्षालितपाणिमान्। द्विराचम्य ततःशुद्धः स्मृत्वा विष्णुं सनातनम्”। पादयोर्द्वे एकैका। इदं मूत्रोत्सर्गे, पुरीषोत्सर्गे तिसृणां विधानात्। दक्षः
“यथोदितं दिवा शौचं अर्द्धं रात्रौ विधीयते। आतुरेतु तदर्द्धं स्यात्तदर्सं तु पथि स्मृतम्”। यथोक्तकरणा-शक्तावेवेदं न तु निशादिपुरस्कारेणैव वाक्यस्यादृष्टार्थता-पत्तेः। आपस्तम्बः
“पथि पादस्तु विज्ञेय आर्त्तः कु-र्य्याद् यथाबलम्”। एतयोर्विरोध आर्त्तानार्त्ताभ्यां परि-हरणीयः। दक्षबौधायनौ
“देशं कालं तथात्मानं द्रव्यंद्रव्यप्रयोजनम्। उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रक-ल्पयेत्”। ब्रह्मपुराणे
“म यावदुपनीयेन द्विजः शूद्रस्त-धाङ्गना। गन्धलेपक्षयकरं शौचं तेषां विधीयते। प्र-माणं शौचसंख्या वा न शिष्टैरुपदिश्यते। यावत् शुद्धिंम ग्रम्येत तावत् शौचं समाचरेत्। म्यूमाधिकं नकर्त्तष्यं शीचं शुद्धिममीप्सता। प्रायश्चित्तं प्रसज्येतविहितातिक्रमे कृते। शौचाचारविहीनस्य समस्ता नि-स्पत्वाः कियाः”। गन्धलेपक्षये सत्यधिकं न कर्त्तव्यंग्राज्ञवल्क्यविरोधात्। गन्धलेपाक्षये त्वधिकसंख्ययापि[Page5146-b+ 38] याज्ञवल्क्यवचनमनुपनीतादिपरं वा। व्याघ्रपादः
“शौ-चन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरन्तथा। मृज्जलाभ्यांस्मृतं बाह्यं भावशुद्धिस्तथान्तरम्। गङ्गातोयेन कृत्-स्नेन मृद्भारैश्च नगोपमैः। आमृत्योः स्नातकश्चैव भाव-दुष्टो न शुद्ध्यति”। स्मृतिः
“धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा। भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवा-दयेत्। जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत्। सर्वं तन्निष्फलं याति एकहस्ताभिवादनात्”। ऋष्यशृङ्गः
“यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत्। नशुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत्”। शौचान-न्तरं हारीतः
“गोमयेन मृदा वा कमण्डलुं प्रमृज्यपूर्ववदुपस्पृश्य आदित्यं सोममग्निं वा वीक्षेत” इति। अत्र मार्जनानन्तरं क्षालनमन्यत्र तथा दर्शनात्। आच-मनानन्तरं सूर्य्यादिदर्शनं यथासम्भबम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच¦ n. (-चं)
1. Purification by ablution, &c. from personal defilement.
2. Purification at given periods from defilement caused by the death of a relation, &c.
3. The state or property of freedom from defilement, purity, cleanness. E. शुचि purity, अण् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम् [śaucam], [शुचेर्भावः अण्]

Purity, clearness; काके शौचं द्यूतकारे च सत्यम् Pt.1.147.

Purification from personal defilement caused by voiding excrement, but particularly by the death of a relative; अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्ता$स्मि भार्गव ॥ Mb. 5.178.6.

Cleansing, purifying.

Vioding of excrement.

Uprightness, honesty.

Water (of libation); पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ Bhāg.1.41.13. -Comp. -आचारः, -कर्मन् n., -कल्पः a purificatory rite. -कूपः A privy.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौच m. (fr. शुचि)N. of a man (also called आह्नेय) TA1r.

शौच n. cleanness , purity , purification ( esp. from defilement caused by the death of a relation) A1s3vS3r. Mn. MBh. etc.

शौच n. purity of mind , integrity , honesty ( esp. in money-matters) MBh. R. etc.

शौच n. (with Buddhists) self-purification (both external and internal) MWB. 240

शौच n. evacuation of excrement MW.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śauca (‘descendant of Śuci’) is the patronymic of a man, called also Āhneya, who is mentioned as a teacher in the Taittirīya Āraṇyaka (ii. 12).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शौच&oldid=505033" इत्यस्माद् प्रतिप्राप्तम्