शालि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालिः, पुं, (शृणातीति । शॄ + बालुलकात् इञ् । रस्य लत्वम् ।) गन्धमार्ज्जारः । इति मेदिनी ॥ कलमादिधान्यम् । षष्टिकादिधान्यम् । इत्य- मरः ॥ तत्पर्य्यायः । मधुरः २ रुच्यः ३ व्रीहि- श्रेष्ठः ४ नृपप्रियः ५ धान्योत्तमः ६ कैदारः ७ सुकुमारकः ८ । पुस्तकान्तरे मधुरस्थाने कलम इति पाठः । स तु दशविधः । यथा, -- “राजान्नषष्टिकसितेतररक्तमण्ड- स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः । व्रीहिस्तथेति दशधा भुवि शालयः स्यु- स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥” इति राजनिर्घण्टः ॥ अस्य गुणाः । “शालयो मधुराः शीता लघुपाका बलावहाः । पित्तघ्नाश्चानिलकफाः स्निग्धा बद्धाल्पवर्च्चसः ॥” इति राजवल्लभः ॥ * ॥ अथ शालिधान्यलक्षणम् । “कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः ॥” शालीनां नामानि यथा, -- “रक्तशालिः सकलमः पाण्डुकः शकुनादृतः । सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥ पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः । दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः । इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ॥” अथ तेषां गुणाः । “शालयो मधुराः स्निग्धा बल्या बद्धाल्पवर्च्चसः । कषाया लघवो रुच्या स्वर्य्या वृष्याश्च वृंहणाः ॥ अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा । शालयो दग्धभूजाताः कषाया लघुपाकिनः ॥ सृष्टमूत्रपूरीषाश्च रूक्षाः श्लेष्मापकर्षणाः । केदाराः वातपित्तघ्ना गुरवः कफशुक्रलाः ॥ कषाया अल्पवर्च्चस्का मधुराश्च बलावहाः ॥” केदाराः कृष्टक्षेत्रजा उप्ताः । “स्थलजाः स्वादवः पित्तकफघ्ना वातवह्निदाः । किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि ॥” स्थलजा अकृष्टभूमिजाः स्वयंजाताः । “वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः ॥ श्लेष्मलाश्चाल्पवर्च्चस्काः कषाया गुरवो हिमाः ॥” वापिताः कृष्णक्षेत्रे अकृष्णक्षेत्रे च । “वापिकेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवा- पिताः ॥” कृष्णक्षेत्रे अकृष्टक्षेत्रे च । “रोपितास्तु नवाः वृष्याः पुराणा लघवः स्मृताः । रोपितारोपिता भूयः शीघ्रपाका गुणाधिकाः ॥ छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफा- पहाः । बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः ॥” अथ रक्तशालेर्गुणाः ॥ “रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् । चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृड्ज्वरापहः । विषव्रणश्वासकासदाहनुद्बह्निपुष्टिदः । तस्मादल्पान्तरगुणाः शालयो महदादयः ॥” रक्तशालिः दाउदखानी इति मगधदेशे प्रसिद्धः । इति भावप्रकाशः ॥ (पक्षी । इत्युणादिवृत्तो उज्ज्वलः । ४ । १२७ ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालि पुं।
कलमषष्टिकाद्याः
समानार्थक:शालि
2।9।24।2।1
माषादयः शमीधान्ये शूकधान्ये यवादयः। शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी॥
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालि¦ पु॰ शल + इञ्। कलमादिधान्ये,
२ षष्ठिकादिधान्ये,अमरः।
३ गन्धमार्ज्जारे च मेदि॰। शालिभेदादिकं
“कण्डनेन विना शुक्लाः हेमन्ताः शालयः स्मृताः” इत्यादि भावप्र॰ उक्तम्। धान्यशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालि¦ n. (-लि)
1. Rice in general, but especially in two classes; one like white rice growing in deep water, and the other a red sort, requiring only a moist soil; there are a great many varieties of this grain.
3. The civet or pole cat. E. शाड् to float or swim, aff. इन्, and ड changed to ल |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालिः [śāliḥ], 1 Rice; न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते Mu.1.3; यवाः प्रकीर्णा न भवन्ति शालयः Mk.4.17.
The civet-cat.-Comp. -ओदनः, -नम् boiled rice (of a superior kind).-कूटम् a heap of rice. -केदारः a rice field. -गोपी a female appointed to watch a rice field; इक्षुच्छाय- निषादिन्यः शालिगोप्यो जगुर्यशः R.4.2. -ग्रामः (s. v. शालग्रामः above); शालिग्रामशिलानां च दानानां च निरूपणम् Brav. P. ब्रह्मखण्ड 1.28. -चूर्णः, -र्णम् rice-flour. -पिष्टम् a crystal. -भवनम् a rice-field. -वाहः an ox used for carrying rice. -वाहनः N. of a celebrated sovereign of India whose era commences with 78 A. D. -शूकः an awn or beard of rice.
होत्रः N. of a writer on veterinary subjects.
a horse. (-त्रम्) Śālihotra's work on veterinary science. -होत्रिन् m. a horse.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शालि (for 2. See. p. 1068 , col. 1) , in comp. for शालिन्.
शालि m. ( accord. to some also f. ; for 1. See. p. 1067 , col. 2) rice (often varieties) , any grain of a similar character to rice Mn. MBh. etc.
शालि m. the civet-cat , pole-cat Hcar. (?) L.
शालि m. N. of a यक्ष(who was transformed into a lion ; See. शालि-वाहनbelow)
शालि m. pl. grains of rice , rice R.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a pupil of कृत. Br. II. ३५. ५३.
(II)--(शालेयतण्डुल): a kind of rice for श्राद्ध. M. १५. ३५; ५५. १८; ७०. ४३.
(III)--a sage. M. १९६. २७.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ŚĀLI : A maharṣi in the lineage of Gurus (preceptors). See under Guruparamparā.
_______________________________
*7th word in right half of page 673 (+offset) in original book.