कपोतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतः, पुं, (को वायुः पोतः नौरिवास्य । यद्वा कवृ वर्णे + “कवेरोतच् पश्च” । उणां । १ । ६३ । इति ओतच् + वस्य पश्च ।) गृहकपोतः । पायरा इति भाषा । तत्पर्य्यायः । कलरवः २ पारावतः ३ । इत्यमरः । २ । ५ । १४ ॥ पारापतः ४ छेद्यः ५ रक्तलोचनः ६ । इति रभसः ॥ गृहकुक्कुटः ७ । यथा, -- “मार्जाररक्षिते दुःखं यादृशं गृहकुक्कुटे” । इति प्रयोगात् इति सारसुन्दरी ॥ (यथा, रामायणे । ५ । ९१ । ४ । “श्रूयते हि कपोतेन शत्रुः शरणमागतः । अर्च्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः” ॥) वनकपोतः । घुघु इति भाषा । तत्पर्य्यायः । चित्र- कण्ठः २ । इति मेदिनी ॥ कोकदेवः ३ धूसरः ४ धूम्रलोचनः ५ दहनः ६ अग्निसहायः ७ भीषणः ८ गृहनाशनः ९ । तन्मांसगुणाः । वीर्य्यबल- वृद्धिकारित्वम् । स्वादुत्वम् । कफपित्तास्रनाशित्वञ्च । इति राजनिर्घण्टः ॥ मधुरत्वम् । शीतत्वम् । कषा- यत्वम् । वातपित्तनाशित्वम् । सार्षपतैलभर्जनेन विरुद्धत्वञ्च । इति राजवल्लभः ॥ (अस्य गुणान्तरं यथा, -- “पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः । संग्राही शीतलस्तज्ज्ञैः कथितो वीर्य्यवर्द्धनः” ॥ इति भावप्रकाशः ॥ “कपोतो वृंहणो बल्यो वातपित्तविनाशनः । तर्पणः शुक्रजननो हितो नॄणा रुचिदः” ॥ इति हारीतः ॥ कपोतविशेषस्य गुणाः ॥ यथा, -- “गुरुः सलवणः काणकपोतः सर्व्वदोषकृत्” ॥ इति वाभटः ॥ “कषायमधुराः शीता रक्तपित्तनिवर्हणाः । विपाके मधुराश्चैव कपोता गृहवासिनः ॥ १ ॥ तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः । शीताः संग्राहिणश्चैव स्वल्पं मृदुतराश्च ते” ॥ २ ॥ इति चरकः ॥ “सर्व्वदोषहरस्तेषां भेदाशी मलदूषकः । कषायस्वादुलवणो गुरुः काणकपोतकः” ॥ इति सुश्रुतः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतः [kapōtḥ], [को वायुः पोत इव यस्य Tv.]

A dove, pigeon.

A bird in general.

A particular position of the hands.

The grey colour of a pigeon. -Comp. -अङ्घ्रिः f. a sort of perfume. -अञ्जनम् antimony.-अरिः a hawk, falcon. -आभ a. of the colour of a pigeon. (-भः) a pale of dirty white colour. -चरणा a sort of perfume. -पालिका, -पाली f. an aviary, a pigeon-house, dove-cot. -राजः the king of pigeons.-वर्णी Small cardamoms. -वाणा a kind of perfume.-वृत्तिः f. to be very frugal, gathering very little for maintenance; कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् Mb.3.26.5.-सारम् antimony. -हस्तः a mode of folding the hands in supplication, fear &c.; कपोतहस्तकं कृत्वा Ś.6.

"https://sa.wiktionary.org/w/index.php?title=कपोतः&oldid=494841" इत्यस्माद् प्रतिप्राप्तम्