साध्वी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्वी, स्त्री, (साधु + ङीष् ।) मेदा । इति राज- निर्घण्टः ॥ पतिव्रता । इत्यमरः । २ । ६ । ६ ॥ तल्लक्षणमाह हारीतः । “आर्त्तार्त्ते मुदिता हृष्टे प्रोषिता मलिना कृशा मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥” (“सा स्त्री ज्ञेया पतिव्रता ।” इत्यपि क्वचित् पाठः ॥ * ॥) तद्धर्म्मा यथा । अङ्गिराः । “साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्यो धर्म्मो हि विज्ञेयो मृते भर्त्तरि कर्हि- चित् ॥” इति शुद्धितत्त्वम् ॥ तत्प्रशंसा यथा, -- “साध्वी स्त्री मातृतुल्या च सर्व्वथा हित- कारिणी । असाध्वी वैरतुल्या च शश्वत् सन्तापदायिका ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । २ । २५ ॥ * ॥ साध्वीस्त्रीणां पतिः प्रेम्णा शतपुत्त्राधिकः । यथा, -- “शतपुत्राधिकः प्रेम्णा सतीनाञ्च पतिर्नृप ! । निरूपितो भगवता वेदेषु हरिणा स्वयम् ॥” इति तत्रैव । ३४ । ६२ ॥ * ॥ “कामिनीं कुलजाताञ्च रहस्ये कामिनीं सतीम् । न पृच्छति कुले जात एवमेव श्रुतौ श्रुतम् ॥ श्रुतौ पुराणे यासाञ्च चरित्रमनिरूपितम् । तासु को विश्वसेत् प्राज्ञो अप्रज्ञाञ्च दुराशयाम् तासां को वा रिपुर्म्मित्रं प्रार्थयन्ती नवं नवम् दृष्ट्वा सुवेशं पुरुषमिच्छन्ति हृदये सदा ॥ वाह्ये स्वात्मसतीत्वञ्च प्रापयन्ती प्रयत्नतः । सत्त्वप्रधानं यद्रुपं तत् शुद्धञ्च स्वभावतः । तदुत्तमञ्च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ स्थानाभावावात् क्षणभावात् मध्यवृत्तेरभावतः देहक्लेशेन रोगेण सत्संसर्गेण सुन्दरि ! ॥ बहुगोष्ठीवृतेनैव रिपुराजभयेन च । रजोरूपस्य साध्वीत्वमेतेनैव प्रजायते ॥” इति ब्रह्यवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥ * ॥ अन्यच्च । “सुते स्तनान्धे यः स्ने हो याकाङ्क्षान्वेतिक्षोभिते पतिस्ने हस्य साध्वीनां कलां नार्हन्ति षोडशीम् स्तनान्धे स्तनदानान्तं मिष्टान्ने भोजनावधि । कान्ते चित्तं सतीनाञ्च स्वप्ने ज्ञाने च सन्ततम् ॥ नान्ने तृष्णा जले तृष्णा साध्वीनां स्वामिना विना । यथा जारे पुंश्चलीनां साध्वीनान्तु तथा प्रिये । शोकं निमग्नमन्येषां कालेन पानभोजनात् । विपरीतं कान्तशोको वर्द्धते भक्षणादहो ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । १७ । ८७, ९०, ९७ ॥ * ॥ किञ्च । “आकाशोऽसौ दिशः सर्व्वा यदिनश्यन्ति वायवः तथापि साध्वीशापस्तु न नश्यति कदाचन ॥” इति तत्रैव । ४२ । ३४ ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्वी स्त्री।
पतिव्रता
समानार्थक:सुचरित्रा,सती,साध्वी,पतिव्रता
2।6।6।2।4
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्वी¦ स्त्री साधु--ङीप्।
१ मेदायां राजनि॰
“आर्त्तार्त्ते[Page5280-b+ 38] मुदिता हृष्टे प्रोषिते मलिना कृशा। मृते{??}येत यापत्यौ साध्वी ज्ञेया पतिव्रता” उक्तलक्षणायां
२ स्त्रियांतत्रार्थे संज्ञात्वात् न पुंवद्भावः। साधुतायुक्ते
३ स्त्रीमात्रेच। तत्रार्थे पुंवद्भाव इति भेदः।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्वी [sādhvī], 1 A virtuous or chaste woman.
A faithful wife.
N. of a kind of root.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्वी f. a chaste or virtuous woman , faithful wife Mn. MBh. etc.
साध्वी f. See. under साधु, p. 1201 , col. 2