आमलकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलकी, स्त्री, (आङ् + मल + क्कन् + जातेरिति ङीष् ।) स्वनामख्यातफलवृक्षविशेषः । आमला इति भाषा । तत्पर्य्यायः । तिष्यफला २ अमृता ३ वयस्था ४ वयःस्था ५ कायस्था ६ । इत्यमरस्त- ट्टीका च ॥ श्रीफला ७ धात्रिका ८ शिवा ९ शान्ता १० धात्री ११ अमृतफला १२ वृष्या १३ वृत्तफला १४ रोचनी १५ । इति राजनिर्घण्टः ॥ कर्षफला १६ तिष्या १७ इति रत्नमाला ॥ अस्या गुणाः । हरीतकीगुणवद्गुणत्वं । विशे- षेण शुक्रकारित्वं । शीतवीर्य्यत्वं । अम्लत्वात् वायु- नाशित्वं । शैत्यमाधुर्य्यात् पित्तनाशित्वं । कषाय- रूक्षत्वात् कफनाशित्वं । सर्व्वफलाधिकगुणत्वं । भोजनाद्यमध्यान्ते प्राशस्त्यं । निरत्ययत्वं । दोष- हरत्वञ्च ॥ अस्य मज्जगुणाः । तृष्णाच्छर्दिकफ- वायुनाशित्वं । लघुत्वं । कषायत्वं । बलकारित्वञ्च । इति राजवल्लभः ॥ अपि च । लघुत्वं । दाहवमि- मेहशोषनाशित्वं । रसायनत्वं । कटुत्वं । रुचि- करत्वं । रक्तदोषनाशित्वं । श्रमविबन्धाध्मान- विष्टम्भदोषप्रशमनकारित्वञ्च । अस्य मज्जनो विभीतकमज्जवद्गुणत्वञ्च । इति राजनिर्घण्टः ॥ (अस्या नामानि गुणाश्च । “त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता । हरीतकीसमञ्जात्रीफलं किन्तु विशेषतः ॥ रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् । हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः ॥ कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् । यस्य यस्य फलस्येह वीर्य्यं भवति यादृशं ॥ तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत्” । इति भावप्रकाशः ॥ “तान् गुणांस्तानि कर्म्माणि विद्यादामलकीष्वपि । यान्युक्तानि हरीतक्यां वीर्य्यस्य तु विपर्य्ययः” । इति धरकः ॥) तच्छुष्कफलगुणाः । कफपित्तनाशित्वं । अम्लत्वं । इति वृहद्धर्म्मपुराणे आमलकीप्रादुर्भावः १२ अध्यायः ॥ * ॥ एकादश्यां तत्र विष्णुप्रीतिर्यथा । “तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः । श्रीकामः सर्व्वदा स्रानं कुर्व्वीतामलकैर्न्नरः” ॥ इति गारुडे २१५ अध्वायः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलकी वि।
आमलकी
समानार्थक:तिष्यफला,आमलकी,अमृता,वयःस्था,धात्री
2।4।57।2।4
स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः। शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः