हस्तिपक
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हस्तिपकः, पुं, (हस्तिप एव । कन् ।) गजारोहः । माहुत इति भाषा । तत्पर्य्यायः । आधोरणः २ हस्त्यारोहः ३ निषादी ४ । इत्यमरः । २ । ८ । ५९ ॥ आद्यौ पालकौ परौ योद्धाराविति केचित् । इति भरतः ॥ (यथा, माघे । ५ । ४९ । “जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ॥”)
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हस्तिपक पुं।
हस्तिपकः
समानार्थक:आधोरण,हस्तिपक,हस्त्यारोह,निषादिन्,यन्तृ
2।8।59।1।2
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥
स्वामी : राजा
सम्बन्धि1 : हस्तिः
सेवक : हस्तिः,हस्तिनी
वृत्ति : हस्तिः
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हस्तिपक/ हस्ति--पक m. id. S3is3. Hit. etc. N. of a poet Subh.