प्रतिश्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्यायः, पुं, (प्रतिक्षणं श्यायते इति । प्रति + श्यै + “श्याद्वधास्रुसंम्व्रतीणेति ।” ३ । १ । १४१ । इति णः ।) पीनसरोगः । इत्यमरः । २ । ६ । ५१ ॥ (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥” अस्य सकारणलक्षणं सम्प्राप्तिश्च यथा, -- “सन्धारणाजीर्णरजोऽतिभाष्य- क्रोधर्त्तुवैषम्यशिरोऽभितापैः । प्रजागरातिस्वपनाम्बुशीतै- रवश्यया मैथुनवाष्पधूमैः ॥ संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु । घ्राणार्त्तितोदैः श्वयथुर्जलाभः स्रावोऽनिलात् सस्वनमूर्द्ध्वरोगः ॥ नासाग्रपाकज्वरवक्त्रशोष- तृष्णोष्णपीतस्रवणानि पित्तात् । कासारुचिस्रावनयनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः ॥ सर्व्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे तीव्ररुजेऽतिदुःखे । सर्व्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात् ॥” इति चरके चिकित्सास्थाने षड्विंशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्याय पुं।

नासारोगः

समानार्थक:प्रतिश्याय,पीनस

2।6।51।2।4

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्याय¦ पु॰ प्रति + श्यै--करणे घञ्। पीनसे रोगभेदेतल्लक्षणादि सुश्रुतोक्तं यथा
“अथातः प्रतिश्यायप्रतिषेधे व्याख्यास्यामः। नारी-प्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः। सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्। चयङ्गता मूर्द्ध्वनि मारुतादयः पृथक्समस्ताश्च तथैव शो-णितम्। प्रकोप्यमाना विविधैः प्रकोपणैर्नृणां प्रतिश्या-यकरा भवन्ति हि। शिरोगुरुत्वं क्षवथोः प्रवर्त्तनंतथाङ्गमर्दः परिहृष्टरोमता। उपद्रवाश्चाप्यपरे पृथग्-विधा नृणां प्रतिश्यायपुरःसराः स्मृताः। आनद्धापिहिता नासा तनुस्रावप्रवर्त्तिनी। गलताल्वोष्ठशोषश्चनिस्तोदः शङ्खयोस्तथा। स्वरोपधातश्च भवेत्प्रतिश्या-येऽनिलात्मके। उष्णः सपीतकः स्नावो घ्राणात् स्रवतिपैत्तिके। कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णाभिपीडितः। सधूमं सहसा वह्निं वमतीव च मानवः। कफः कफ-कृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः। शुक्लावभासः शू-नाक्षो भवेद्वुरुशिरोमुखः। शिरोगलौष्ठतालूनां कण्डूय-नमतीव च। भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनि-वर्त्तते। सम्पक्वो वाप्यपक्वो वा स सर्वप्रभवः स्मृतः। [Page4454-b+ 38] लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे। रक्तजे तुप्रतिश्याये रक्तास्रावः प्रवर्त्तते। ताम्राक्षश्च भवेज्जन्तुरुरोघात प्रतीडितः। दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्नवेत्ति च। मूर्च्छन्ति चात्र कृमयः श्वेताः कृष्णास्तथा-ऽणवः। कृमिमूर्द्धविकारेण समानं चास्य लक्षणम्। प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति। मुहुरानह्यतेचापि मुहुर्विव्रियते तथा। निश्वासोच्छ्वासदौर्गन्ध्यं तथागन्धान्नवेत्ति च। एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्र-साधनम्। सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः। कालेन रोगजनना जायन्ते दुष्टपीनसाः। बाधिर्य्यमा-न्ध्यमघ्राणं घोरांश्च नयनामयान्। कामाग्निसादशोफांश्चवृद्धाः कुर्वन्ति पीनसाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्याय¦ m. (-यः) Catarrh. E. प्रति before, श्यै to go, to drop, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्याय/ प्रति- m. a cold , catarrh Sus3r. Car.

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्याय&oldid=501800" इत्यस्माद् प्रतिप्राप्तम्