असाधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारणम्, त्रि, (न साधारणं सामान्यधर्म्मयुक्तम् । नञ्समासः ।) साधारणभिन्नं । असामान्यं । विशेषः । न्यायमते साध्यव्यापकीभूताभावप्रति- योगिहेतुः । यथा वह्निमान् जलत्वादित्यादिः । यथा । “यत्तु प्रयागे च्यहस्राने क्रोडीकृते माघसप्तमीलानादावसाधारणसङ्कल्पेन पुनस्तथैव प्रातःस्नानाचरणं” इति तिथ्यादितत्त्वं ॥ किञ्च “असाधारणशरीरव्यापारार्ज्जितं अविद्वद्भ्यो दातु- मनिच्छन्न दद्यात्” । इति दायभागः ॥ अतुल्यं । इति शूद्रवर्गे साधारणशब्दार्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारण¦ त्रि॰ साधारणं सामान्यधर्मयुक्तं न॰ त॰।

१ तद्भिन्ने,तन्मात्रवृत्तिधर्मयुक्ते विशेषे

२ अधिके च। न्यायमते
“यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मत” इत्युक्ते

३ सप-क्षविपक्षावृत्तौ हेतौ पु॰। यथा वह्निसाधने गगनादि-र्हेतुः स च पक्षे पर्व्वतादौ, पक्षभिन्ने जलादौ च नविद्यते गगनादेः कुत्रापि विद्यमानत्वाभावात् इति तस्यतथात्वम्
“साधारणासाधारणयोर्मध्येऽसाधारणे कार्य्य-संप्रत्यय” इति न्यायः।

४ स्वमात्रस्वत्वास्पदीभूते इतरस्वत्वरहिते घनादौ च। स्त्रियां ङीष् गौरा॰।
“पितापुत्रान्तरेष्वपि साधारणः माता त्वसधारणी” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारण¦ mfn. (-णः-णा-णं) Special, specific, not common. n. (-णं)
1. Speciality, species.
2. Special property. E. अ neg. साधारण common.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारण [asādhāraṇa], a.

Not common, peculiar; special, specific.

(In logic) Existing neither in सपक्ष or विपक्ष as a hetu; यस्तूभयस्माद् व्यावृत्तः स त्वसाधारणो मतः

Not to be claimed by anyone else, exclusively belonging to one (as wealth &c.); पिता पुत्रान्तरेष्वपि साधारणो माता त्वसाधारणी Mitā. -णः A fallacy or हेत्वाभास in Logic; one of the three kinds of अनैकान्तिक q. v.-णम् Speciality, special property.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारण/ अ-साधारण mf( ई)n. not common , special , specifical Tarkas.

असाधारण/ अ-साधारण mf( ई)n. quite uncommon , extraordinary Das3. Katha1s. etc.

असाधारण/ अ-साधारण n. special property L.

"https://sa.wiktionary.org/w/index.php?title=असाधारण&oldid=507620" इत्यस्माद् प्रतिप्राप्तम्