उशीर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीरः, पुं, क्ली, (वश कान्तौ + “वशः कित्” । ४ । ३१ इति उणादिसूत्रण ईरन् । सम्प्रसारणम् ।) वीरणमूलम् । वेनार मूल् खस् इत्यादि भाषा । तत्पर्य्यायः । अभयम् २ नलदम् ३ सेव्यम् ४ अमृ- णालम् ५ जलाशयम् ६ लामज्जकम् ७ लघुलयम् ८ अवदाहम् ९ इष्टकापथम् १० । इत्यमरः ॥ उषीरम् ११ मृणालम् १२ लघु १३ लयम् १४ अवदानम् १५ इष्टम् १६ कापथम् १७ अवदाहेष्टकापथम् १८ इन्द्रगुप्तम् १९ । इति तट्टीकायां भरतादयः ॥ जलवासम् २० हरिप्रियम् २१ वीरम् २२ वीरणम् २३ समगन्धिकम् २४ रणप्रियम् २५ वीरतरु २६ शिशिरम् २७ शीतमूलकम् २८ वितानमूलकम् २९ जलमेदम् ३० सुगन्धिकम् ३१ सुगन्धिमूलकम् ३२ कम्भु ३३ । इति राजनिर्घण्टः ॥ अस्य गुणाः । घर्म्मदार्गन्ध्यदाहपित्तरक्तरोगनाशित्वम् । इति राजवल्लभः ॥ अपिच । शीतलत्वम् । तिक्तत्वम् । मोहभ्रमापहत्वम् । ज्वरार्त्तिपित्तशमनकारित्वम् । जलसौगन्ध्यदायकत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, शाकुन्तले ३ अङ्के । “प्रियंवदे ! कस्येद- मुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि नीयन्ते” । अस्य पर्य्यायगुणाः यथा, “वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥ उशीरम्पाचनं शीतं स्तम्भनं लघु तिक्तकम् । मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् ॥ तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीर पुं-नपुं।
वीरणमूलम्
समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ
2।4।164।1।3
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीर¦ पु॰ न॰ वश--ईरन् किच्च। वीरणमूले (खसखस्)तस्य गुणाः
“उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम्। मधुरं ज्वरहृद्वान्तिमलनुत् कफपित्तनुत्। तृष्णार्त्तिविषवीस-र्पदाहकृच्छ्रव्रणापहम्” भावप्र॰
“अगरुपृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति”
“चन्दनकुचन्दनह्रीवेरोशी-रमञ्जिष्ठापयस्याविदारीशतावरीहिङ्गुभिः” सुश्रु॰स्वार्थे कन् तत्रैव। उशीरं पण्यमस्य किशरादि ष्ठन्। उशोरिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष्। उशीनर-स्यापत्यम् अण्। औशीनर तदपत्ये शिविप्रभूतौ।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीर¦ mn. (-रः-रं) The root of a fragrant grass, (Androdogon muricatum.) f. (-री) A sort of grass, a small sort of Saccharum. E. वश् ta desire, ईरन् Una4di affix; also with कन् added उशीरक।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीर mn. ( Un2. iv , 31 ) , the fragrant root of the plant Andropogon Muricatus Sus3r. S3ak. Hcat. etc.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीर पु.
सुगन्धित चूर्ण; द्रष्टव्य-संभार।