पतञ्जलि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतञ्जलिः, पुं, (पतः पतन् वा अञ्जलिः नम- स्कार्य्यतया यस्मिन् । शकन्ध्वादित्वात् साधुः ।) मुनिविशेषः । स तु पातञ्जलदर्शनपाणिनिटीका- महाभाष्यादिग्रन्थकर्त्ता । तत्पर्य्यायः । गोनर्द्दीयः २ । इति हेमचन्द्रः ॥ चूर्णिकृत् ३ भाष्यकारः ४ । इति त्रिकाण्डशेषः ॥ वररुचिः ५ । इति शब्दरत्नावली ॥ (केषाञ्चिन्मते योगसूत्रकारक- पतञ्जलेर्भाष्यकृत् पतञ्जलिर्भिन्न एव । अनयो- रभेदतान्तु निर्द्दिशन्ति पाश्चात्याः ॥ पातञ्जलयोग- शास्त्रन्तु पादचतुष्टयात्मकं तत्र प्रथमे पादे “अथ योगानुशासनम् ।” इति योगशास्त्रारम्भ- प्रतिज्ञां विधाय “योगश्चित्तवृत्तिनिरोधः ।” इत्यादिना योगलक्षणमुक्त्वा सप्रपञ्चसमाधि- निर्द्देशं कृतवान् भगवान् पतञ्जलिः ॥ द्बितीये तु “तपः स्वाध्यायेश्बरप्रणिधानानि क्रिया- योगः ।” इत्यादिना व्युत्थितचित्तस्य क्रियायोगं यमादीनि पञ्च वहिरङ्गाणि साधनानि च निर- दिशत् । तृतीये “देशबन्धश्चित्तस्य धारणा ।” इत्यादिना धारणाध्यानसमाधित्रयरूपमन्तरङ्गं संयमपदवाच्यं तत्र अवान्तरफलं विभूतिजातञ्च उपदिदेश । चतुर्थे पादे तु “जन्मौषधिमन्त्रतषः समाधिजाः सिद्धयः ।” इत्यादिना ससिद्धिपञ्चकं मुख्यं प्रयोजनं कैवल्यं प्रधानादीनि पञ्चविंशति- तत्त्वानि क्लेशकर्म्मविपाकाशयैरसंश्लेष्टं पुरुषं स्वेच्छया निर्म्माणकायमधिष्ठाय लौकिकादि- सम्प्रदायप्रवर्त्तकं संसारदहने दग्धानां जीवानां निस्तारकञ्च उपदिष्टवान् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतञ्जलि¦ पु॰ पतन् अञ्जलिर्नमस्यतया यस्मिन्।
१ योगसूत्र-कारके ऋषिभेदे गोनर्द्दतीरे तपस्यतः कस्यचिदृषेरञ्ज-लितः पतिते पाणिनिसूत्रस्य
२ भाष्यकारे तस्य तथो-त्पत्त्रिकथा शकन्ध्वा॰ वार्त्ति॰ शेखरादौ दृश्या। अयच योगशास्त्रकारकात् भिन्न इति सरलायामस्माभिः। समर्थितम्। अनयोरभेद इति पाश्चात्त्यवैयाकरणाः। भेदाभेदयोर्युक्तत्वायुक्तत्वे च सुधीर्विर्भाव्ये। यीगमतञ्चसर्वदर्शनसंग्रहे प्रदर्शितं यथा
“सांख्यप्रवचनापरनामधेयंमनुवर्त्तमानानां मतसुपन्यस्यते। तच्च योगशास्त्रं पत-ञ्जलिप्रणीतं पादचतुष्टयात्मकम्। तत्र प्रथमे पादे
“अथयोगानुशासनमिति” योगशास्त्रारम्भप्रतिज्ञां विधा{??}
“योगश्चित्तवृत्तिनिरोधः” इत्यादिना योगलक्षणमभि-धाय समाधिं सप्रपञ्चं निरदिक्षत् भगवान् पतञ्जलिः। द्वितीये
“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इत्यादिना व्युत्यितचित्तस्य क्रियायोमं यमादीनि पञ्चबहिरङ्गानि साधनानि। तृतीये
“देशबन्धसित्तस्यधारणा” इत्यादिना धारणाध्याबसमाधित्रयमन्तरङ्गंसंयमपदवाच्यं तत्रावान्तरफलं विभूतिजातञ्च। चतुर्थे
“जन्मौषध्रिमन्त्रतपःसमाधिजाःसिद्धयः” इत्यादिना सिद्धि-पञ्चकप्रपञ्चनपुरःसरं परं प्रयोजनं कैवल्यम्। प्रधाना-दीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव सम्भतानि षड्-विंशस्तु परमेश्वरः क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषःस्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदाय-प्रवर्त्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राह-कश्च। ननु पुष्करपलाशवन्निर्लेपस्य तस्य (पुरुषस्य) तापःकथमुपपद्यते येन परमेश्वरोग्याऽनुग्राहकतया कक्षीक्रियतेइति चेदुच्यते तापकस्य रजसः सत्वमेव तप्यं बुद्ध्यात्मनापरिणमते इति सत्वे परितप्यमाने तमोवशेन तदभेदाव-गाही पुरुषोऽपि तप्यत इत्युच्यते। तदुक्तमाचार्य्यैः
“सत्वं तप्यं बुद्धिभावेग वृत्तं भावास्ते वा राजसास्ताप-कास्ते। तप्पाभेदग्राहिणी तामसी या वृत्तिस्तस्यांतप्य इत्युक्त आत्मेति”। तद्भाष्ये व्यासेनाप्युक्तम्
“अपरिणामिनी हि मोक्तृशक्तिरप्रतिसंक्रमा च पूरि-[Page4205-a+ 38] णामिन्यर्थे प्रतिसंक्रान्ते च तद्वृत्तिमनुमवतीति”। भोक्तृशक्तिरिति चिच्छक्तिरुच्यते सा चात्मेव परिणा-मिन्यर्थे बुद्धिसत्वे प्रतिसंक्रान्ते च प्रतिविम्बिते तद्वृ-त्तिमनुभवतीति बुद्धौ प्रतिविम्बिता सा चिच्छक्तिर्बुद्धि-च्छायापत्त्या बुद्धिवृत्त्यनुकारवतीति” भावः। तथा शुद्धो-ऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यंन्नतदात्मापितदात्मक इव प्रतिभासत इति। इत्थं तप्यमानस्यपुरुषस्यादरनैरन्तर्य्यदोर्धकालानुबन्धियमनियमाद्यष्टाङ्ग-योगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्वपुरुषान्य-ताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशाःसमूलकाषं कषिता मवन्ति कुशलाकुशखाश्च कर्म्माशयाःसमूलथातं हता भवन्ति। ततश्च पुरुषस्य निर्लेपस्य कैव-ण्येनावस्थानं कैवल्यमिति सिद्धम्। तत्र
“अथ योगानु-शासससिति” प्रथमसूत्रेण प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्र-योजनसम्बन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते। अत्राथशब्दोऽधिकारार्थः स्वीक्रियते (इतःपरं तस्यार-म्मार्थकता महता प्रबन्धेन समर्षिता तत्र दृश्या)तदमाषि व्यासभाष्ये
“अथेत्ययमधिकारार्थः प्रयुज्यते” इति योगसूत्रविवरणे च तद्व्यात्वख्यौ वाच-स्मतिः
“तस्मादयमथशवदोऽधिकारद्योतको मङ्गलार्थ-श्चेति सिद्धमिति”। बदित्थमसुस्याथशब्दस्याधिकारार्थ-स्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्णनात् सम-स्तशास्त्रतात्पर्य्यव्याख्यानेन शास्त्रस्य सुखतोबोधप्रवृत्ति-रास्तामित्युपपन्नम्। मनु
“हिरण्यगर्भो योगस्य वक्तानान्यः पुरातनः” इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथंयोगस्य शासितेति चेदद्धा अतएव तत्र तत्र पुराणादौविशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमा-जेन म{??}ता कृपासिन्धुना फणिपतिना सारं सञ्जिघृ-णुणा अनुशासनमारब्धं न तु साक्षाच्छासनम्। यदा-यमथशब्दोऽधिकारार्थः तदैवं वाक्यार्थः सम्पद्यते यो-गानुशासनं शास्त्रगधिकृतं वेदितव्यमिति। तत्र शास्त्रेव्युत्पाद्यमानतया योगः ससाधनः सफलो विषयःतद्व्युत्पादनमवान्तरफलं व्युत्पादितस्य योगस्य कैवल्यंपरमप्रयोजनम्। शास्त्रयोगयोः प्रतिपाद्यप्रतिपादकभाव-सक्षणः सम्बन्धः, योगस्य कैवल्यस्य च साध्यसाधनभाव-सक्षणः सम्बन्धः स च श्रुत्यादिप्रसिद्ध इति प्रागेवावा-दिषम्। मोक्षमपेक्षमाणाः श्रवणाधिकारिण इत्यर्थ-सिद्धस्। न चाथाती बह्मजिज्ञासेत्यादाविवाधिकारिणो-[Page4205-b+ 38] ऽर्थतः सिद्धिराशङ्कनीया तत्राथशब्देनानन्तर्य्याभिधानेप्रण्णाडिकया अधिकारिसमर्पणसिद्धावार्थिकत्वशङ्गानुद-यात्। अतएवोक्तं
“न श्रुतिप्राप्ते प्रकरणादोनाम-वकाशः” इति। अस्यार्थः यत्र हि श्रुत्या अर्थो न लभ्यतेतत्रैव प्रकरणादयोऽर्थं समर्पयन्ति नेतरत्र। यत्र तु श-ब्दादेवार्थस्योपलम्भः तत्र नेतरस्य सम्भवः शीघ्रबोधिन्याश्रुत्या बोधितेऽर्थे तद्विरुद्धार्थं प्रकरणादि समर्पयतिअयिरुद्धं वा। न प्रथमः विरुद्धार्थबोधकस्य तस्य बाधि-तत्वात्। न चरमः वैयर्थ्यात्तदाह
“श्रुतिलिङ्गवाक्यप्रकरण-स्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति”
“वाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्य-मानां तु बाध्यत्वं बाधकत्वमपेक्षया” इति च तस्माद्विषया-दिसत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं शास्त्रमा-रम्भणीयमिति स्थितम्। ननु व्युत्पाद्यमानतया योगएवात्र प्रस्तुतो न शास्त्रमिति चेत् सत्यं प्रतिपाद्यतयायोगः प्राधान्येन प्रस्तुतः स च तद्विषयेण शास्त्रेणप्रतिपाद्यत इति तत्प्रतिपादने करणं शास्त्रं करणगो-चरश्च कर्तृव्यापारो न कर्मगोचरतामाचरति। यथाछेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमननिपातनादि कर्म करण-भूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरं तथा च वक्तुःपतञ्जलेः प्रवचनव्यापारापेक्षया योगविपयस्याधिकृतताकरणस्य शास्त्रस्य, अभिघानव्यापारापेक्षया तु योगस्यैवेतिविभागः। ततश्व यागशास्त्रस्यारम्भः सम्भावनां भजतेअत्र चामुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते। ननु युजिर्योग इति संयोगार्थतया परिपठितात् युजेर्निष्पन्नो योगशब्दः संयोगवचनएव स्यान्न तु निरोध-वचनः। अतएवोक्तं याज्ञवल्क्येन
“संयोगो योगइत्युक्तो जीबात्मपरमात्मनोः” इति तदेतद्वार्त्तं जीव-परयोः संयोगे कारणस्यान्यतरकर्मादेरसम्भवादजसं-योगस्य कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च। मीमां-सकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य साध्य-त्वाभावेन शास्त्रवैफल्यापत्तेश्च धातूनामनेकार्थे{??}न युजेःसमाध्यर्थत्वोपपत्तेश्च। तदुक्तम्
“निपाताश्चोपसर्गाश्चधातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठ-स्तेषां निदर्शनमिति” अतएव केचन युजिं समाघावपिपठन्ति (युज समाधाविति)। नापि याज्ञवल्क्यवचनव्या-कोपः तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात्।
“स-माधिः समतावस्था जीवात्मपरमात्मनोः। ब्रह्मण्येव[Page4206-a+ 38] स्थितिर्या सा समाधिः प्रत्यगात्मनः” इति तेनैवोक्त-त्वाच्च। तदुक्तं भगवता व्यासेन
“योगः समाधिरिति”। यद्येवमष्टाङ्गयोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्ज-लिना यमनियमासनप्राणायामपत्याहारध्यानधारणा-समाधयोऽष्टाङ्गानि योगस्येति। न चाङ्ग्येवाङ्गतांगन्तुसुत्सहते उपकार्य्योपकारकभावस्य दर्शपूर्णमासप्रया-जादौ भिन्नायतनत्वेनात्यन्तभेदादतः समाधिरपि नयोगशब्दार्थो युज्यत इति चेत्तन्न युज्यते व्युत्पत्तिमा-त्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समा-धिरिति निरूपितच रमाङ्गवाचकेन समाधिशब्देनाङ्गिनोयोगस्याभेदविवक्षया व्यपदेशोपपत्तेः। न च व्युत्पत्ति-बलादेव सर्वत्र शब्दः प्रवर्त्तते तथात्वे गच्छतीति गौरिति व्युत्पत्तेः तिष्ठन् गौर्न स्यात् नच्छतो देवदत्तस्यौस्यात् प्रवृत्तिनिमित्तञ्च प्रागुक्तमेव चित्तवृत्तिनिरोध इतितदुक्तम्
“योगश्चित्तवृत्तिनिरोधः” इति। ननु वृत्तीनां नि-रोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनात्माश्रयतया तन्नि-रोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् प्रागभाव-प्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् ततश्च
“उपय-न्नपयन् धर्म्मो विकरोति हि धर्मिणमिति” न्यायेनात्मनःकौटस्थ्यं विहन्येतेति चेत्तदपि न घटते निरोध्यानांप्रमाणविपर्य्ययविकल्पनिद्रास्मृतिस्वरूपाणां वृत्तीनामन्तः-करणाद्यपरपर्य्यायचित्तवर्मत्वाङ्गीकारात् कूटस्वनित्याचिच्छक्तिरपरिणामिनी विज्ञानधर्म्माश्रयो भवितुं नार्ह-त्येव। न च चितिशक्तेरपरिणामित्वमसिद्धमिति मन्तव्यंचितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् न यदेवं नतदेवं यथा चित्तादि इत्याद्यनुमानसम्भवात् तथा यद्यसौपुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वा-त्तासां चित्तवृत्तीनां सदाज्ञातृत्वं नोपपद्येत चिद्रूपस्यसदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्गनिर्मलं सत्वंतस्यापि सदैव स्थितत्वात् येन येनार्थेनोपरक्तं भवति तस्यदृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निः-सङ्गत्वं सम्भवति। ततश्च सिद्धं तस्य सद्वा ज्ञातृत्वमितिन काचित् परिणामित्वाशङ्कावतरति। चित्तं पुनर्येनविषयेणोपरक्तं भवति स विषयो ज्ञातः यदुपरक्तं नभवति तदज्ञातमिति वस्तुतोऽयस्कान्तमणिकल्पस्य ज्ञाना-ज्ञानकारणभूतोपरागानुपरागधर्मित्वादयःसधर्मकं चित्तंपरिणामि इत्युच्यते। ननु चित्तस्येन्द्रियाणां चाहङ्कारि-काणां सर्वगतत्वात् सर्वविषयैरस्ति सदा सम्बन्धः तथाच[Page4206-b+ 38] सर्वेषां सर्वदा सर्वत्व ज्ञानं प्रसज्येत सर्वगतत्वेऽपि चित्तंयत्र शरीरे वृत्तिमत् तेन शरीरेण सह सम्बन्धो येषांविषयाणां तेष्वेवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गा-भावादतएवायस्कान्तमणिकल्पा विषयाः अयःसधर्मकंचित्तमिन्द्रियप्रणालिकयाभिसम्बध्योपरञ्जयन्ति। तस्मा-च्चित्तस्य धर्मा वृत्तयो नात्मनः तथाच श्रुतिः
“कानःसङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा घृतिरधृतिरित्येतत्-सर्वं मन एवेति”। चिच्छक्तेरपरिणामित्वं पञ्चशिखा-चार्य्यैराख्यायि
“अपरिणामिनी भोक्तृशक्तिरिति” पत-ञ्जलिनापि
“सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरि-णामित्वादिति”। चित्तपरिणामित्वेऽनुमानमुच्यते चित्तंपरिणामि ज्ञाताज्ञातविषयत्वात् श्रोत्रादिवदिति। परि-णामश्च त्रिविधः प्रसिद्धः धर्मलक्षणावस्थाभेदात् धर्मिणश्चित्तस्य नीलाद्यालोचनं धर्मपरिणामः यथा कनकस्य क-टकमुकुटकेयूरादि। धर्मस्य वर्त्तमानत्वादिर्लक्षणपरिणामःनीलाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणामः कनका-देस्तु नवपुराणत्वादिरवस्थापरिणामः। एवमन्यत्रापियथासम्भवं परिणामत्रितयमूहनीयं तथाच प्रमाणादि-वृत्तीनां चित्तधर्मत्वात् तन्निरोधोऽपि तदाश्रय एवेति नकिञ्चिदनुपपन्नम्। ननु वृत्तिनिरोधो योग इत्यङ्गीकारेसुषुप्त्यादौ विक्षिप्तमूढादिचित्तवृत्तीनां निरोधसम्भवाद्यो-गत्वप्रसङ्गः न चैतद्युज्यते क्षिप्ताद्यवस्थासु क्लेशप्रहाणादे-रसम्भवान्निःश्रेयसपरिपन्थित्वाच्च। तथा हि क्षिप्तंतेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तमुच्यते। तमः-समुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढमिति गीयते। क्षिप्ता-द्विशिष्टं चित्तं विक्षिप्तमिति गीयते विशेषो नाम चञ्चलंहि मनः कृष्ण! प्रमाथि वलवद्दृढमिति” न्यायेनास्थि-रस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्य्यसम्भवेनस्थैर्य्यम्। अस्थिरत्वञ्च स्वाभाविकं ष्याध्याद्यनुशयजनितंवा तदाह
“व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रा-न्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽ-न्तरायाः” इति। तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादि-र्व्याधिः, चित्तस्याकर्मण्यत्वं स्त्यानं, विरुद्धकोटिद्वयावगाहिज्ञानं संशयः समाधिसाधनानाममावनं प्रमादः, शरीर-वाक्चित्तगुरुत्वादप्रवृत्तिरालस्यं, विषयाभिलाषोऽविरतिः,अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनं कुतश्चिन्निमित्तात् समाधि-भूमेरलाभोऽलब्धभूमिकत्वं, लब्धायामपि तस्यां चित्तस्या-प्रतिष्ठा अनवस्थितत्वमित्यर्थः। तत्पान्न वृत्तिनिरोधो[Page4207-a+ 38] योगपक्षनिक्षेपमर्हति इति चेन्मैवं वोचः हेयमूतक्षिप्ता-द्यवस्थात्रये वृत्तिनिरोधस्य हेयत्वसम्भवेऽप्युपादेययोरेका-ग्रनिरुद्धावस्थयोर्वृत्तिनिरोवस्य योगत्वसम्भवात्। एकतानंचित्तमेकाग्रसुच्यते निरुद्धसकलवृत्तिकं संस्कारमात्रशेषंचित्तं निरुद्धमिति मन्यते। स च समाधिर्द्विविधःसम्प्रज्ञातासम्प्रज्ञातभेदात् तत्रैकाग्रचेतसि यः प्रमाणा-दिवृत्तीनां बाह्यविषयाणां निरोधः स सम्प्रज्ञातसमाघिःसम्यक् प्रज्ञायतेऽस्मिन् प्रकृतेर्विविक्ततया चित्तमितिव्युत्पत्तेः। स चतुर्विधः सवितर्कादिभेदात् समाधि-र्नाम भावना सा च भाव्यस्य विषयान्तरपरिहारेणचेतसि पुनः पुनर्निवेशनं, भाव्यञ्च द्विविघम् ईश्वरस्त-त्त्वानि च। ताम्यपि द्विविधानि जडाजडभेदात् जडानिप्रकृतिमहदङ्कारादीनि चतुविंशतिः अजडः पुरुषः। तत्रयदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरा-नुसन्धानेन शब्दार्थोल्लेख्यसम्भेदेन च भावना प्रवर्त्तते ससमाधिः सवितर्कः। यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मंविषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्त्तते तदसविचारः। यदा रजस्तमीलेशानुमिद्धं चित्तं भाव्यते तदासुखप्रकाशमयस्य सत्वस्योद्रेकात् सानन्दः। यदा रज-स्तमोलेशानभिभूतं शुद्धं सत्थमालम्बनीकृत्य या प्रवर्त्ततेभावना तदा तस्यां सत्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकाच्चसत्वमात्रावशेषत्वेन सास्मितः सकाधिः। वितर्कविचारा-नन्दास्मितारूपानुगमात् सम्प्रज्ञातः इति। सर्ववृत्तिनि-रोधे त्वसम्रज्ञातः समाथिः। ननु सर्ववृत्तिनिरोधोयोगइत्युक्ते सम्प्रज्ञाते व्याप्तिर्न स्यात् तत्र सत्वप्रधानायाः स-त्यपुरुषान्यतास्थातिलक्षणाया वृत्तेरनिरोधादिति चेत्त-देतद्वार्त्तं क्लेशकर्मविपाकाशयपरिपन्विचित्तवृत्तिनिरोधयोग इत्यङ्गीकारात्। क्लेशाः पुनः पञ्चधा प्रसिञ्चा अ-विद्यास्मितारागद्वेषाभिनिवेशाः। नन्वविद्येत्यत्र किमा-श्रीयते पूर्वपदार्थप्राधान्यम् अमक्षिकं वर्त्तत इतिवत्उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् अन्यपदार्थ-प्राधान्यं वा अमक्षिको देश इतिवत् तत्र न पूर्वः, पूर्व-पदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधोपपत्तौ क्लेशा-दिकारलत्वानुपपत्तेः अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावा-पत्तेय। न द्वितीयः, कस्यचिदभावेन विशिष्टाया विद्यायाःक्लेशादिपरिपन्वित्वेन तद्वीजत्वानुपपत्तेः। न तृतीयः
“नब्जोऽस्त्यर्थानां बहूव्रीहिर्वा चोत्तरपदलोपः” इतिवृत्तिकारवचनासुसारेण अविद्यमाना विद्या यस्याः सा[Page4207-b+ 38] अविद्या बुडिरिति समाधिसिद्धौ तस्या अविद्यायाः क्ले-शादिवीजत्वानुपपत्तेः विवेकख्यातिपूर्वकसर्ववृत्तिसम्पन्ना-यास्तस्यास्तथात्वाप्रसङ्गाच्च उक्तञ्च अस्मितादीनां क्लेशाना-मविद्यानिदानत्वम्।
“अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्रतनु-विच्छिन्नोदाराणामिति”। तत्र प्रसुप्तत्वं प्रबोधसहकार्य-भाबेनानभिव्यक्तिः, तनुत्वं प्रतिपक्षभावनया शिथिलीक-रणं, विच्छिन्नत्वं{??}वता क्लेशेनाभिमवः, उदारत्वं सह-कारिसन्निधिवशात् कार्यकारित्वम्। तदुक्तं वाचस्पति-मिश्रेण व्यासभाष्यव्याख्यायाम्
“प्रसुप्तास्तत्त्वलीनानांतनुदग्धाश्च योगिमाम्। विच्छिन्नोदाररूपाश्च क्लेशा वि-षयसङ्गिनाम्” इति द्वन्द्ववत् स्वतन्त्रपदार्थद्वयामवगमादु-भयषदार्थप्रधानत्वं नाशङ्कितम्। तस्मात् पक्षत्रयेऽपिक्लेशादिनिदानत्वमविद्यायाः प्रसिद्धं हीयेतेति चेत्तदपि न शोभनं विभाति पर्युदासशक्तिमाश्रित्याविद्या-शब्देन विद्याविरुद्धस्य विपर्य्ययज्ञानस्याभिधानमितिवृद्धैरङ्गीकारात्। तदाह
“नामधात्वर्थयीने तु नैव नञ्प्रतिषेधकः। वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनाविति। वृद्धप्रयोगमस्या हि शब्दार्थाः सर्व एव नः तेन यत्रप्रयुक्तो यो न तस्मादपनीयते” इति वा{??}स्पतिमिश्रैर-प्युक्तं
“लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धःलोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयो-पमर्दकस्य तद्विद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धेप्रवृत्तिरिति”। एतदेवाभिप्रेत्योक्तम्
“अनित्याशुचिदुः-खानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येति”। अतस्मिं-स्तद्बद्धिर्विपर्य्ययः इत्युक्तं भवति तद्यथा अनित्ये घ-दादौ नित्यत्वामिमानः, अशुचौ कायादौ शुचित्वप्रत्ययः।
“स्थानाद्वीजादवष्ट{??}न्निष्यन्दान्निधनादपि। कायमा-धेयशौश्रत्वात् पण्डिता ह्यशुचिं विदुः” इति
“परिणाम-तापसंस्कारैर्गुणवृत्तिनिरोधाच्च दुःखमेव सर्वं वियेकिनइति” न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपःअनात्मनि देहाबात्मबुद्धिः। तदुक्तम्
“अनात्मनि चदेहादावात्मबुद्धिस्तु देहिनाम्। अबिद्या तत्कृती बन्ध-स्तन्नाशे मोक्ष उच्यते” इति एवमियमविद्या चतुष्प्रकाराभवति। तन्वेतेष्वविदा{??}शेषेषु किञ्चिदनुगतं सामान्य-{??}क्षणं वर्णनीयम् अन्{??} विशेषस्यासिद्धेः। तथाचोक्तंभट्टाचार्य्यैः
“सामान्{??}णं त्यक्त्वा विशेषस्यैव मृज-णम्। न शक्यं केवकं वक्तुमतोऽप्यस्य--न वाच्यता” इति{??}दपि न काच्यमतस्विंस्त{??}रिति सामान्यलक्ष{??}भि-[Page4208-a+ 38] धानेन दत्तोत्तरत्वात्। सत्वपुरुषयोरहमस्मीत्येकताभि-मानोऽस्मिता तदप्युक्तं
“दृक्दर्शनशक्त्योरेकात्मत्वाभिमा-नोऽस्मितेति”। सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुख-साधनेषु तृष्णारूपो गर्द्धो रागः। दुःखज्ञस्य तदनुस्मृतिपु-रःसरन्तत्साधनेषु निन्दा द्वेषः तदुक्तं
“सुखानुशयी रागःदुःखानुशयो द्वेषः” इति। किमत्रानुशयिशब्दे ताच्छी-ल्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः नाद्यः
“सुप्य-जातौ णिनिस्ताच्छील्ये इत्यत्र सुषीति वर्त्तमाने पुनःसृव्-ग्रहणस्य उषसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनु-त्पत्तेः यथा कथञ्चिदङ्गीकारेऽपि
“अचोञ्णितीति” वृद्धि-प्रसक्तावतिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात्। नद्वितीयः
“एकाक्षरात् कृतोजातेः सप्तम्याञ्च न तौ (इनि-ठनौ) स्मृताविति” तत्प्रतिषेधादत चानुशयशब्दस्याजन्तत्वेनकृदन्तत्वात्। तस्मादनुशयिशब्दो दुरुपपाद इति चेत्नैतद्भद्रं भावानवबोधात् प्रायिकाभिप्रायमिदं वचनम्। अतएवोक्तं वृत्तिकारेण
“इतिकरणो विवक्षार्थः सर्व-त्राभिसम्वध्यते” इति तेन कचिद्भवति कार्य्यी कार्य्यि-कस्तण्डुली तण्डुलिक इति तथा च कृदन्तात् जातेश्चप्रतिषेधस्य प्रायिकत्वम् अनुशयशब्दस्य कृदन्ततया इनेरु-पपत्तिरिति सिद्धम्। पूर्वजन्मानुभूतमरणदुःखानुभववास-नाबलात् सर्वस्य प्राणभृन्मात्रस्याकृमेरा च विदुषः सञ्जाय-मानः शरीरविषयादेर्मम वियोगी मा भ्दिति प्रत्यहंनिमित्तं विना प्रवर्त्तमानोभयरूपोऽभिनिवेशः पञ्चमःक्लेशः मा च भूवं हि भूयासमिति प्रार्थनायाः प्रत्या-त्ममनुभवसिद्धत्वात् तदाह
“स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः” इति। ते चाविद्यादयः पञ्च सांसारि-कविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाःप्रसिद्धाः। कर्माणि विहितप्रतिषिद्धरूपाणि ज्योति-ष्टोमब्रह्महत्यादीनि विपाकाः कर्मफलानि जात्यायु-र्भोगाः, आफलविपाकाच्चित्तभूमौ शेरते इत्याशयाः धर्मा-धर्मसंस्काराः। तत्परिपन्थिचित्तवृत्तिनिरोधी योगः। निरोधो, नाभावमात्रमभिमतं तस्य तुच्छत्वेन भावरूपसं-स्कारजननक्षमत्वासम्भवात् किन्तु तदाश्रयो मधुमतीमधु-प्रतीकाविशोकासंस्कारशेषताव्यपदेश्यः घ्नित्तस्यावस्थावि-शेषः निरुध्यन्तेऽस्मिन् प्रमाणाद्याश्चित्तवृत्तय इति व्यु-त्पत्तेरुपपत्तेः। अभ्यासवैरान्याभ्यां वृत्तिनिरोधः। तत्रस्थितौ भूयान् यत्रोऽभ्यासः। प्रकाशप्रवृत्तिरूपवृत्तिर-हितस्य चित्तस्य स्वरूपनिष्ठः परि{??}मविशेषः स्थितिः। [Page4208-b+ 38] तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशन-मभ्यासः। चर्मणि द्वीपिनं हन्तीतिबन्निमित्तार्थेयं सप्त-मीत्युक्तं भवति
“दृष्टानुश्रविकविषयवितृष्णस्य वशी-कारसंज्ञा वैराग्यम्”। ऐहिकपारत्रिकविषयादौ दोष-दर्शनान्निरभिलाषस्य ममैते विषया वश्याः नाहमेतेषांवश्य इति विमर्शो वैराग्यमित्युक्तं भवति। समाधि-प्ररिपन्थिक्लेशतनूकरणार्थं समाधिलाभार्थं च प्रथमंक्रियायोगविधानपरेण योगिना मवितव्यं क्रियायोगस-म्वादने अभ्यासवैराग्ययोः सम्भवात् तदुक्तं भगवता
“आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्यतस्यैव शमः कारणमुच्यते” इति। क्रियायोगश्चोपदिष्टःपतञ्जलिना
“तपःस्वाध्यायेश्वरप्रणिधानागि क्रियायोगः” इति। तपःस्वरूपं निरूपितं याज्ञवल्क्येन
“विषि-नोक्तेन मार्गेण कृच्छ्चान्द्रायणादिभिः। शरीरशोषणंपाहुस्तपसां तप उत्तमम्” इति। प्रणवगायित्रीमन्त्र-प्रभृतोनामध्ययनं स्वाध्याय इति। तत्र मन्त्रा द्विविधाःवैदिकास्तान्त्रिकाश्च। वैदिकाश्च द्विविधाः प्रगीता अप्रगी-ताश्च। तत्र प्रगीताः सामानि अप्रगीतार द्विविधाःछन्दोबद्धास्तद्बिलक्षणाश्च। तत्र प्रथमा{??}चोन्नितीयायजूंषि तदुक्तं जैमिनिना
“तेषामृग् यत्रार्थवशेन पादव्यवस्था गीतिषु सामाख्या शेषे यजुःशब्द” इति। तन्त्रेषुकामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णितास्ते तान्ति-काः। ते पुनर्मन्त्रास्त्रिविधाः स्त्रीपुञ्चपुंसकभेदात्तदाह
“स्त्रोपुंनसकत्वेन त्रिविधा मन्त्रजातयः। स्त्रीमन्त्रावह्निजायान्ताः नमोऽन्ताः स्युर्नपुंसकाः। शेषाः पुमांस-स्ते शस्ताः सिद्धा वश्यादिकर्मणि” इति। स्नापनादि-संस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सि{??}हिहेतुत्वात्सिद्धत्वम्। स च संस्कारो दशविधः मथितः शारदा-तिलके
“मन्त्राणां दश कथ्यन्ते संख्यारा सिद्धिदायिनः। निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः। जननंजीवनञ्चैव ताडनं बोधनं तथा। अभिषेकोऽथ बिम-लीकरणाप्यायने पुनः। तर्पणं दीपनं गुप्तिर्दशैता मन्त्र-संस्क्रियाः। मन्त्राणां मातृकावर्णादुद्धारो जननंस्मृतम्। प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः। मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते। मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा। प्रत्येकं वायुवीजेनताडनं तदुदाहृतम्। वितिख्य षन्त्रवर्णांस्तु प्रसूनैः क-रवीरजैः। मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम्। [Page4209-a+ 38] स्यतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्क्यया। अश्वत्थप-ल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये। संचिन्त्य मनसा मन्त्रं ज्यो-तिर्मन्त्रेण निर्दहेत्। मन्त्रे मलत्रयं मन्त्री विमलीक-रणं हि तत्। तारव्योमाग्निमनुयुक् ज्योतिर्मन्त्र उदा-हृतः। कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः। वारिवीजेन विधिवदेतदाप्यायनं मतम्। मन्त्रेण वारिणामन्त्रे तर्पणं तर्पणं स्मृतम्। तारमायारमायोगो मनो-र्दीपनमुच्यते। जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाश-जम्। संस्कारा दश मन्त्राणां सर्वतन्त्रेषु गोपिताः। यत्कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते। रुद्धकीलि-तविच्छिन्नसुप्तशप्तादयोऽपि च। मन्त्रदोषाः प्रणश्यन्तिसंस्कारैरेभिरुत्तमैः” इति। तदलमकाण्डताण्डवकल्पेनमन्त्रशास्त्ररहस्योद्घोषणेन। ईश्वरप्रणिधानं नामाभिसंहि-तानामनभिसंहितानाञ्च सर्वासां क्रियाणां परमेश्वरे पर-मगुरौ फलानपेक्षया समर्पणम्। अत्रेदमुक्तम्
“काम-तोऽकामतो वापि यत्ककरोमि शुभाशुभम्। तत्सर्वंत्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति। क्रिया-फलसन्न्यासोऽपि भक्तिविशेषापरपर्य्यायं प्रणिधानमेवफलानभिसन्धानेन कर्मकरणात् तथा च गीयते गी-ताञ्चु भगवता
“कर्मण्येवाधिकारस्ते मा फलेषु कदा-{??}ल। सा कर्म फलहेतुर्भूर्सा ते सङ्गोऽस्त्वकर्मणि” इति{??}लाभिसन्धेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभा-रतीश्रीचरणैः
“अपि प्रयत्र सम्पन्नं कामेनोपहतंतपः। न तुष्टये महेशस्य श्वलीढमिव पायसम्” इतिणा च तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योग-साधनत्वाद्योग इति। शुद्धसारोपलक्षणावृत्त्याश्रयणेननिरूप्यते यथायुर्घृतमिति। शुद्धसारोपलक्षणा नामलक्षणाप्रमेदः। मुख्यार्थबाधतद्योगाभ्यामर्थान्तरप्रतिपा-दनं लक्षणा{??} द्विविधा रूढिमूला प्रयोजनमूला चतदुक्तं काव्यप्रकाशे
“मुख्यार्थबाधे तद्योगे रूढितोऽथप्रयोजनात्। अन्योऽर्थी लक्ष्यते यत् सा लक्षणारो-पिता क्रिया” इति। यच्छब्देन लक्ष्यत इत्याख्याते गु-यीभूतं प्रतिपादनमात्रं परामृश्यते। सा लक्षणेतिप्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः। तदुक्तं कैयटैः
“निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमा-यादयन्ति सर्वनामानि पर्य्यायेण तत्तल्लिङ्गमुपाददते” इतितत्र कर्मणि कुशस इत्यादि रूढिलक्षणाया उदाहरणं{??}शान् लातीति व्युत्पत्या दर्भादानकर्त्तरि यौगिकं[Page4209-b+ 38] कुशलपदं विवेचकत्वसारूप्यात् प्रवीणे प्रवर्त्तमानम्अनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानबत् प्रयो-जनमनपेक्ष्य प्रवर्त्तते। तदाह
“निरूढा लक्षणाः का-श्चित् सामर्थ्यादभिधानवत्” इति। तस्मात् रूढिलक्ष-णायाः प्रयोजनापेक्षा नास्ति। यद्यपि प्रयुक्तः शब्दःप्रथमं मुख्यार्थं प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यतेइति अर्थधर्मो लक्षणा तथापि तत्प्रतिपादके शब्देसमारोपितः सन् शब्दव्यापार इति व्यपदिश्यते” इति। स च योगी यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः। तत्रयमा अहिंसादयः। तदाह पतञ्जलिः
“अहिंसासत्या-स्तेयब्रह्मचर्य्यापरिग्रहा यमाः” इति। नियमाः शौचा-दयः। तदप्याह
“शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधा-नानि नियमाः” इति। एते च यमनियमा विष्णुपुराणेदर्शिताः
“ब्रह्मचर्य्यमहिंसां च सत्यास्तेयापरिग्रहान्। सेवेत यागी निष्कामो योग्यतां स्वं मनो नयन्। स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान्। कुर्वीतब्रह्मणि परं परस्मिन् प्रवणं मनः। एते यमाः सनि-यमाः पञ्च पञ्च प्रकीर्त्तिताः। विशिष्टफलदाः कामेनिष्कामाणां विमुक्तिदाः” इति। स्थिरसुखमासनंपद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसीपाश्र-यपर्य्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदाद्दशविधम्
“पादाङ्गुष्ठौ निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु। ऊर्वो-रुपरि विप्रेन्द्र! कृत्वा पादतले उभे। पद्मासनं भवेदे-तत् सर्वेषामभिपूजितम्” इत्यादिना याज्ञवल्क्यः पद्मा-सनादिस्वरूपं निरूपितवान् तत्सर्वं ततएवावगन्तव्यम्। तस्मिन्नासनस्थैर्य्ये सति प्राणायामः प्रतिष्ठितो भवति। स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः तत्र श्वासो नामबाह्यस्य वायोरन्तरानयनम्। प्रश्वासः पुनः कौष्ठ्यस्य ब-हिर्निःसारणम्। तयोरुभयोरपि सञ्चरणाभावः प्राणा-यामः। ननु नेदं प्राणायामसामान्यलक्षणं तद्विशेषेषुरेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेन्नैषदोषः सर्वत्रापि श्वासप्रश्वासगतिविच्छेदसम्भवात् तथा हिकौष्ठ्यस्य वायोर्बहिर्निःसरणं रेचकः प्राणायामः प्रश्वा-सत्वेन प्रागुक्तः। बाह्यवायोरन्तर्धारणं पूरकः यःश्वासरूपः। अन्तस्तम्भवृत्तिः कुम्भकः यस्मिन् जलमिवकुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते। तत्र सर्वत्रश्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति शङ्काव-काशः। तदुक्तं
“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः[Page4210-a+ 38] प्राणायामः” इति। स च वायुः सूर्य्योदयमारभ्य सार्द्ध-घटिकाद्वयं धटीयन्त्रस्थितषटभ्रमणम्यायेन एकैकस्यांनाड्यां भवति एवं सत्यहर्निशं श्वासप्रश्वासयोः षट्शता-घिकैकविंशतिसहस्नाणि जायन्ते। अतएवोक्तं मन्त्र-समर्पणरहस्यबेदिभिरजपामन्त्रसमर्पणे
“षट्शतानिगणेशाय षट्सहश्रं स्वयम्भुवे। विष्णवे षट्सहस्रञ्चषट्सहस्रं पिनाकिने। स हस्रमेकं गुरवे सहस्नं पर-मात्मने। सहस्रमात्मने चैवमर्पयानि कृतं जपम्” इतितथा नाडीसञ्चरणदशायां वायोः सञ्चरणे पृथिव्यादीनितत्त्वानि वर्णविशेषवशात् पुरुषार्थाभिलाषुकैः पुरुषैरव-गन्तव्यानि। तदुक्तपमियुक्तैः
“सार्द्धं घटीद्वयं नाडीरेकैकार्कोदयात् वहेत्। अरथट्टधटीभ्रान्तिन्यायो नाड्योःपुनः पुनः। शतानि तस्य जायन्ते निश्वासोच्छ्वासयोर्नव।{??}खषट्कुद्विकैः
२१
६०
० सङ्ख्याहोरात्रे सकले पुनः। षट्त्रिंशद्गुरुवर्णानां या वेला भणने भवेत्। सा वेलामरुतो नाड्यन्तरे सञ्चरत्रो भवेत्। प्रत्येकं पञ्च तत्त्वानिलाड्योश्च बहमानयोः। वहन्त्यहर्निशं तानि ज्ञातव्या-बियतात्मभिः। ऊर्द्ध्वं वह्निरघस्तोयं तिरश्चीनः समी-रणः। भूमिरर्द्धपुटे व्योम सर्{??गं प्रवहेत् पुनः। वा-योर्वह्नेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात्। वह-न्त्योरुभयोर्नाढ्योर्ज्ञातव्योऽयं यथाक्रमम्। पृथ्व्याःपलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः। अग्नेस्त्रिंशत्पुनर्वायोर्विंशतिर्नभसी दश। प्रवाहकालसंख्येयं हेतु-र्विह्वलयोरथ। पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः। त्रिगुणोद्विगुणो वायुर्वियदेकगुणं भवेत्। गुणं प्रतिदश पणान्युर्व्यां पञ्चाशदित्यतः। एकैकहानिस्तोयादे-स्तथा पञ्चगुणाः क्षितेः। तत्त्वाभ्यां भूजलाभ्यां स्यात्शान्तिकार्य्ये फलोन्नतिः। दीप्तास्थिरादिके कृत्ये तेजो-वाष्वम्बरेषु च। पृथ्व्यप्तेजोमरुद्व्योमतत्त्वानां चिह्न-सुच्यते। आद्ये स्थैर्य्यं स्वचित्तस्य, शैत्ये कामोद्भवो भ-व्रेत्। तृतीये कोपसन्तापौ चतुर्थे अञ्चलात्मता। पञ्चमेशून्यतैव स्यादथ वा धर्मवासना। श्रुत्योरङ्गुष्ठकौ मध्या-ङ्गुल्यौ नासापुटद्वये। स्मृक्वणोः प्रान्त्यकोपान्त्याङ्गुलीशेषे दृगन्तयोः। न्यस्यान्तर्भूपृथिव्यादितत्त्वज्ञानं भवेत्क्रमात्। पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपाधि स्वम्” इत्यादिना। यथावद्वायुतत्त्वमवगस्थ तन्नियमने विधीय-माने विवेकज्ञानावरणकर्मक्षयो भवति।
“तपो न परंप्लाणायामादिति”।
“दह्यन्ते ध्मायमानानां धातूनां हि[Page4210-b+ 38] यथा मलाः। पाणायामैस्तु दह्यन्ते तद्वदिन्द्रियपन्नगाः” इति च। तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनःसंयमप्रत्याहारः कर्त्तव्यः चक्षुरादीनामिन्द्रियाणां प्रति-नियतरञ्जनीयकोपनीयसोहनीयप्रवणत्वप्रहाणेनाविकृत-स्वरूपप्रवणचित्तानुकारः प्रत्याहारः इन्द्रियाणि विष-येभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति व्युत्पत्तेः। ननु तदाचित्तमभिनिविशते नेन्द्रियाणि तेषां बाह्यविषयत्वेनतत्र सामार्थ्याभावादतः कथं चित्तानुकारः? अद्धाअतएव वस्तुतस्तस्यासम्भवमभिसन्धाय सादृश्यार्थमिवशब्दञ्चकार सूत्रकारः
“स्वविषयासम्प्रयोगे चिचस्वरू-पानुकार इवेन्द्रियाणां प्रत्याहारः” इति। सादृश्यञ्चचित्तानुकारनिमित्तं विषयासम्प्रयोगः यदा चित्तं नि-रुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्ष-णीयं यथा मधुकरराजं मधुमक्षिका अनुवर्त्तन्ते तथे-न्द्रियाणि चित्तमिति। तदुक्तं विष्णुपुराणे
“शब्दा-दिष्वनुरक्तानि निगृह्याक्षाणि योगविंत्। कुर्य्याच्चित्तानु-कारीणि प्रत्याहारपरायणः” इति।
“वश्यता परमा तेनज्ञायतेऽतिचलात्मनः। इन्द्रियाणामवश्यैस्तैर्योगीयोगस्य साधकः” इति। नाभिचक्रहृदयपुण्डरीकनाड्य-ग्रादावाध्यात्मिके हिरण्यगर्भप्रजापतिप्रभृतिके बाह्येवा देशे चित्तस्य विपयान्तरपरिहारेण स्थिरीकरणंधारणा। तदाह
“देशबन्धाश्चित्तस्य धारणेति”। पौरा-णिकाश्च
“प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम्। वशीकृत्य ततः कुर्य्याच्चित्तस्थानं शुभाश्रयम्” इति। तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्र-हाणेन प्रवाहीध्यानं तदुक्तं
“तत्र प्रत्ययैकतानताभ्यानमिति”। अग्यैरप्युक्तं
“तदूपप्रत्ययैकाग्र्या सन्तति-श्रान्यनिस्पृहा। तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यतेतथा” इति। प्रसङ्गाच्चरममङ्गं प्रागेव प्रत्यपीपदाम। तदनेन योगाङ्गानुष्ठानेनादरनैरन्तर्य्यदीर्घकालसेवितेन स-माघिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसमा-धिलाभो भवति। अथ किमेवमकस्मादस्मानतिविकटाभि-रत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भ-वान्, न हि वयं भवन्तं भीषयामहे किन्तु मधुमत्यादिप-दार्यव्युत्पादनेन तोषयामः ततश्चाकुतोभयेन भवता श्रूय-तामवधानेन। तत्र मधुमती नामाभ्यासवैराग्यादिवशाद-पास्तरजस्तमीलेशसुखप्रकाशमयसत्वभावनयाऽनवद्यवैशार-द्यविद्योतनरूपा श्रतम्भरप्रज्ञाख्या समाधिसिद्धिः। तदुक्तं[Page4211-a+ 38]
“ऋतम्भरा तत्र प्रज्ञेति”। ऋतं सत्यं बिमर्त्ति कदाचिदपिन विपर्य्ययेणाच्छाद्यते तत्र स्थितौ दा{??} सति द्वितीयस्ययोगिनः सा प्रज्ञा भवतीत्यर्थः। चत्वारः खलु योगिनःप्रसिद्धाः प्रथमकल्पिको मधुमूमिकः प्रज्ञाज्योतिरतिक्रान्त-भावनीयश्चेति। तत्राभ्यासे प्रवृत्तिमात्रज्योतिः प्रथमःन त्वनेन प्रचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृत-मित्युक्तं मवति। ऋतम्भरप्रज्ञो द्वितीयः, भूतेन्द्रियजयीतृतीयः परवैराग्यसम्पन्नश्चतुर्थः। मनोजवित्वादयो म-धुप्रतीकसिद्धयः। तदुक्तं
“मनोजवित्वं विकरणाभावःप्रधानजयश्चेति”। मनोजवित्वं नाम कायस्य मनोवदुत्तमोगतिलाभः विकरणाभावः कायनिरपेक्षाणामिन्द्रियाणा-मभिमतदेशकालविषयापेक्षवृत्ति{??}भः, प्रधानजयः प्रकृ-तिविकारेषु सर्वेषु वशित्वम्। एताश्च सिद्धयः करण-पञ्चकस्वरूपजयात् तृतीयस्य योगिनः प्रादुर्भवन्ति यथामधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयःस्वदन्त इति मधुप्रती{??}। सर्वभावाद्यधिष्ठातृत्वादिरूपा-विशोका सिद्धिः। तदाह
“सत्वपुरुषाम्यताख्याति-मात्रप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं चेति”। सर्वेषांव्ययसायाव्यषसायात्मकानां गुणपरिणामरूपाणां भावानांस्वामिवदाक्रमणं सर्षमावाधिष्ठातृत्वं तेषामेव शान्तोदिता-व्यवदेश्यथर्मित्वेन स्थितानां विवेस्त{??}नं सर्वज्ञातृत्वम्। तदुक्तं
“विशोका वा ज्योतिष्मतीति”। सर्ववृत्तिप्रत्यस्तमयेपरं वैराग्बमाश्रितस्य जात्यादिवीजानां क्लेशानां निरी-वसमर्थो निर्वीजः समाधिः असम्प्रज्ञातपदवेदनीयः संस्का-रशेषता{??}पदेश्यः चित्तस्यावस्थाविशेषः। तदुक्तं
“विरामःप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यऽ इति। एवञ्च सर्वतोबिरज्रमानस्व तस्य पुरूषधौरेयस्म क्वेशवीजानि च निर्द-ग्धशासिवीजकल्पानि प्रसवसामर्थ्यविधुराणि मनसासार्द्धं प्रत्यस्तं गच्छन्ति। तदेतेषु प्रलीनेषु निरुषप्लववि-वेकख्यातिपरिपाकवशात् लार्यकारणात्मकानां प्रधाने-कमः चितिशक्तिस्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वामिश्चम्यन्धवि-चुरा कैवल्यं लभते इति। सिद्धिद्वयी च मुक्तिरुक्ता पत-ञ्जलिना
“पुरुषार्थशून्यानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठावा चितिशक्तिरिति”। न चासिन् सत्यपि कस्मान्नजायते जन्तुरिति वदितव्यं कारणाभावात् कार्य्याभावइति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात्। अपरथाकारणाभावेऽपि कार्यसम्भवे जणिवेधादयोऽन्धदिभ्योभवेयुः। तथा चानुपपन्नार्थतायामामाणको लौकिक[Page4211-b+ 38] उपपन्नार्थो मवेत्। तथा च श्रूयते
“अन्धो मणि-मविध्यत्तमनङ्गुलिरथावयत् (ग्रथितवान्)। अग्रीवस्त्रंप्रत्यमुञ्चत् (पिनद्धवान्) तमजिह्वोऽप्यभ्यपूजयत्” (स्तुत-वातिति) यावत्। एवञ्च चिकित्साथास्त्रवद्योनशास्त्रंचतुर्व्यूहं यथा चिकित्साशास्{??}ं रोगो रोगहेतुरारोग्यंभेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षो-पाय इति। तत्र दुःखमयः संसारो हेयः, वधान-पुरुषयोः संयोनो हेयभोनहेतुः, तस्यात्यन्तिकी निवृ-त्तिर्हानं तदुपायः सम्यन्दर्शनम्। एवमन्यदपि शास्त्रंयथासम्भवं चतुर्व्यूहमूहनीयमिति सर्वग्रवदातम्”।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतञ्जलिः [patañjaliḥ], N. of the celebrated author of the Mahābhāṣya, the great commentary on Pāṇini's Sūtras; also of a philosopher, the propounder of the Yoga philosophy.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतञ्जलि m. (fr. पत+ अञ्ज्? ; See. Pa1n2. 6-1 , 94 Va1rtt. 4 Pat. g. शकन्ध्व्-आदि)N. of a celebrated grammarian (author of the महाभाष्य)
पतञ्जलि m. of a philosopher (the propounder of the योगphilosophy)
पतञ्जलि m. of a physician etc.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a Siddha. भा. VI. १५. १४; M. १९६. २५.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PATAÑJALI : A celebrated commentator in Sanskrit. Patañjali is one of the best commentators of Pāṇini's Vyākarṇasūtras. Pandits are of opinion that he got his name Patañjali to mean that people should worship (añjali) at his foot (pāda). He was such an adorable person. Pandits believe that Patañjali is the author of Yogasūtra and Carakasaṁhitā. A few believe that Patañjali was the incarnation of Ādiśeṣa. But modern scholars are of opinion that Patañjali, the commentator and Patañjali the author of Yogasūtras are two different persons.
In his book on Patañjalicarita, Rāmabhadradīkṣita writes about the birth of Patañjali:--“Once Goṇikā, daughter of a sage, prayed to the Sun-god for a son At once Ananta, King of the serpents, fell on her palm in the form of a sage. The ascetic girl brought up that sage as her son. After some years the sage went to Cidambara and prayed to Śiva to bless him with enough knowledge and wisdom to write a com- mentary on Kātyāyana's Vyākaraṇavārttika (explana- tory rules on Pāṇiṇi's sūtras). Śiva blessed him and the sage wrote the commentary. Many disciples went to him to learn the commentary and the sage accepted them all as disciples and promised to teach them provi- ded they would abide by a condition, namely, that nobody should remove a curtain he would place between him and the disciples while teaching. The teaching went on for some time. He would reply to their doubts but the replies were peculiar and ambiguous and the disciples, getting disappointed, removed the curtain one day. The sage cursed them all. One of the dis- ciples was away from the place then and the sage cursed him for leaving the place without permission during the course of study. He begged for relief and the sage was pleased. The Guru said if he could teach his commentary to one who would say logically that the Bhūtakarmavācyakṛdanta (past participle of a verb) of the root ‘Pac’ was ‘Pakva’ he would be released from the curse. Candragupta who came from Ujjayinī gave the correct answer and he was taught the Mahābhāṣya. Bhartṛhari was the son born to Candragupta of a Śūdra woman.
Patañjali, according to Professor Goldstucker, was a courtier of King Puṣyamitra and was alive when Menander attacked Sāketa. This would mean that Patañjali lived before B.C. 150.
_______________________________
*2nd word in right half of page 583 (+offset) in original book.