क्षमी
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमी, [न्] त्रि, (क्षम् + “शमीत्यष्टाभ्यो घिनुण्” । ३ । २ । १४१ । इति घिनुण् ।) क्षमाशीलः । तत्पर्य्यायः । सहिष्णुः २ सहनः ३ क्षन्ता ४ तितिक्षुः ५ क्ष- मिता ६ । इत्यमरः । ३ । १ । ३१ ॥ क्षमः ७ शक्तः ८ सहः ९ प्रभूष्णुः १० । इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १५ । ४० । “क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः” ॥)