कदर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदरम्, क्ली, (कं जलं दृणाति दारयति नाशयतीत्यर्थः । क + दॄ + अच् ।) पायसभेदः । इति शब्दमाला ॥

कदरः, पुं, (कं जलं दृणाति श्लेष्मणा संहतजलं नाश- यतीत्यर्थः । क + दॄ + अच् ।) श्वेतखदिरः । का~टा वावला इति भाषा । तत्पर्य्यायः । सोमवल्कः २ । इत्यमरः । २ । ४ । ४० ॥ ब्रह्मशल्यः ३ खदिरोपमः ४ । इति रत्नमाला ॥ (श्वेतसारः ५ । खदिरः ६ । सोमवल्कलः ७ । इति भावप्रकाशः ॥ गुणानाह तत्रैव । “कदरो विशदो वर्ण्यो मुखरोगकफास्रजित्” ॥ व्यवहारो यथा, चरके । “तिन्दुकपियालवदरकदरखदिरसप्तपर्णाश्चकर्णा- र्ज्जुनासनारिमेदा इति दशेमान्युदर्द्दप्रशमनानि भवन्ति” ॥) क्रकचः । करात् इति भाषा ॥ व्याधि- भेदः । इति मेदिनी ॥ कडा जामुडा इति भाषा ॥ तस्य लक्षणम् । यथा निदाने । “शर्करोन्मथिते पादे क्षते वा कण्टकादितः । ग्रन्थिः कोलवदुत्पन्नो जायते कदरस्तु सः” ॥ (“शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ॥ सकोलः कठिनो ग्रन्थिर्निम्नमध्योन्नतोपि वा । कोलमात्रः सरुक्स्रावी जायते कदरस्तु सः” ॥ इति सुश्रुतः ॥) तच्चिकित्सा यथा भावप्रकाशे ॥ “दहेत् कदरमुद्धृत्य तैलेन दहनेन वा” ॥ अङ्कुशः । इति हारावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर पुं।

श्वेतखदिरः

समानार्थक:कदर,सोमवल्क

2।4।50।1।3

अरिमेदो विट्खदिरे कदरः खदिरे सिते। सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर¦ पु॰ कं जलं दृणातिदृ--अच्।

१ श्वेतखदिरे तस्य सेव-नात् मुखस्थितस्यश्लेष्मणा संहतरूपजलस्य दारणात्
“कदरो विशदोवर्ण्योमुखरोगकफास्रजित्” इतिभावप्र॰ तद्गुणमध्ये सुखकफनाशित्वोक्तेस्तथात्वम्।

२ पायसभेदे (छेडापायस) न॰ शब्दमाला। तस्यअम्लादियोगात् दुग्धान्तर्गतजलदारणात् तथात्वम्। कदःविह्वलकारिका अरा अस्य।

३ क्रकचे(करात)मेदि॰ सुश्रु-तोक्ते

४ क्षुद्ररोगभेदे स च रोगः
“समासेन चत्वारिंशत्क्षुद्ररोगा भवन्तीत्युद्दिश्य”
“कदरम् अजगल्लिक इत्यादि-ना विभज्य
“शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः। मेदोरक्तानुगैश्चैव दोषैर्वेधादथापि वा। कोलमात्रः सरु-क्स्रावो जायते कदरस्तु सः” लक्षितः (पाएरजासुडा)तत्र बिभागे कदरमित्युक्तेर्नपुंसकताप्यस्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर¦ m. (-रः)
1. A white sort of mimosa.
2. A corn, a callosity.
3. A saw.
4. An iron goad for an elephant. n. (-रं) Coagulated milk. E. क water, &c. दृ to tear, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदरः [kadarḥ], 1 A saw.

An iron goad for driving an elephant.

N. of a tree sometimes substituted for Khadira as a sacrificial post. -रः, -रम् A corn, a callosity of the feet caused by external friction. -रम् coagulated milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदर m. a saw L.

कदर m. an iron goad (for guiding an elephant) L.

कदर m. a species of Mimosa(= श्वेत-खदिर; cf. Gk. ?) Bhpr. Comm. on Ka1tyS3r.

कदर mn. a corn , callosity of the feet (caused by external friction) Sus3r.

कदर n. coagulated milk L. (See. कङ्कर, कटुर, etc. )

"https://sa.wiktionary.org/w/index.php?title=कदर&oldid=494648" इत्यस्माद् प्रतिप्राप्तम्