सामग्री पर जाएँ

क्षारपाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारपाक¦ पु॰ सुश्रुतोक्ते क्षारद्रव्यस्य पाकमेदे तत्र क्षारभेदस्य गुणप्रयोगादिकमुक्त्वा तत्पाकविधिरुक्तो यथा[Page2369-b+ 38]
“अथातः क्षारपाकविधिमध्याय व्याख्यास्यामः। शस्त्रा-नुशस्त्रेभ्यः क्षारः प्रधानतमश्छेद्यभेद्यलेखकरणात्त्रिदोष-घ्नत्वाद्विशेषक्रियावचारणाच्च। तत्र क्षरणात् क्षणनाद्वाक्षारः। नानौषधिसमवायात्त्रिदोषन्नः शुक्लत्वात्सौम्यस्तस्यसौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा सखल्वाग्नेयौषधिगणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्रः पा-चनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनःकृम्यामयकफकुष्ठविषमेदस मुपहन्तापुंस्त्वस्य चातिसेवितः। स द्विविधः प्रतिसारणीयः पानीयश्च। तत्र प्रतिसारणीयःकुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रणनाडीच-र्म्मकीलतिलकालकव्यङ्गमशकवाद्व्यविद्रधिकृभिविषार्शःसू-पदिश्यते सप्तसु च मुखरोगेपूपजिह्वाधिजिह्वोपकु-शदन्तवैदर्भेषु तिसृषु च रोहिणीष्वेतेषु चैवानुशस्त्र-प्रणिधानमुक्तम्। पानीयस्तु गरगुल्मोदराग्निशूलाजी-र्ण्णारोचकानाहशर्कराश्मर्य्याभ्यन्तरविद्रविकृमिविषार्शःसूप-युज्यते। अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिवालवृद्ध-दुर्बलभ्रममदमूर्द्व्यातिमिरपरीतेभ्योऽन्येभ्यश्चैवंबिधेभ्यः। त-ञ्चेतरक्षारवदृध्वा परिस्रावयेत्तस्य विस्तारोऽन्यत्र। सचत्रिविधोमृदुर्मध्यस्तीक्ष्णश्च। तं चिकीर्षुः शरदि गिरिसा-नुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतंमध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाट-यित्वाभिमन्त्य्रानेन मन्त्रेण। अग्निवीर्य्य! महावीर्य्य!मा ते वीर्य्यं प्रणश्यतु। इहैव तिष्ठ कल्याण! ममकार्य्यं करिष्यसि। मम कार्य्ये कृते पश्वात् स्वर्गलो-कं गमिष्यसि। श्वेतपुष्परक्तपुष्पसहस्रं ज्रहुयात्। ख-ण्डशः प्रकल्प्याथ निर्व्वाते देशे निचितं कृत्वा सुधाश-र्कराश्च प्रक्षिप्य तिलनालैरादीपयेदथोपशान्तेऽग्नौ तद्भत्मपृथग्गृह्लीयाद्भस्मशकर्राश्च। अथानेनैव विधानेन कुष्टज-पलाशाश्वकर्ण्णपारिभद्रकविभीतकारग्बधविल्वकार्क्कस्नुह्य-पामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रदृक्षास्फो-ताश्वमारकसप्तच्छदाग्निमन्थान् गुञ्जाथतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत्। ततः क्षारद्रोणमुदकद्रोणैःषड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिवारान् विस्राव्य-महति कटाहे शनैर्दर्व्या विवट्टयन् बिपचेत्। स यदाभवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रेपरिस्राव्येतरं विसृज्य च पुसरग्नावधिश्रयेत्। ततएव च क्षारोदकात् कुडवमध्यर्द्धं वाऽपनयेत्। ततः कट-शर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीर ग्नवर्ण्णा। कृत्यायसे[Page2370-a+ 38] पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सत-तमप्रमत्तश्चैनमवघट्टयन् विपचेत्। स यथा नातिसान्द्रीनातिद्रवश्च भवति तथा प्रयतेन। अथैनमवगतपाकमव-तार्य्यानुगुप्तमायसे कुम्मे संवृतमुखे निदध्यादेष मध्यमः। एष एवाप्रतीवापः पक्वः संव्यूहितो मृदुः। प्रतिवापे य-थालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकाप्रबालतालपत्रीविडमुवर्चिकाकनकक्षीरीहिङ्गुवचाविषाः समाः श्लक्ष्णचू-र्ण्णाः शुक्तिप्रमाणाः प्रतिवापः। स एव सप्रतिवापः पक्वःपाक्यस्तीक्ष्णस्तेषां यथाव्याधिवलमुपयोगः। क्षीणबले तुक्षारोदकमावपेद्धलरक्षणार्थं। भवतश्चात्र। नैवातितीक्ष्णोन मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः। अभिघ्यन्दी शिवःशीघ्रः क्षारो ह्यष्टगुणः स्मृतः। अतिमार्दवशैत्यौष्ण्यतै-क्ष्ण्यपैच्छिल्यसर्पिताः। सान्द्रताऽपक्वता हीनद्रव्यतादोष उच्यते। तत्र क्षरसाध्यव्याधिव्याधितमुपवेश्य निर्वाते देशेऽसम्बाधे ऽग्रोपहरणीयोक्तेन विधानेनोपस-म्भृतसम्भारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्यपिच्छलयिता शलाकया क्षारं पातयित्वा वाक् शतमात्रमुपक्षिपेत्। तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम्। तत्राम्लवर्गः शमनः सर्पिर्म्मधुकसंयुतः। अथ चेत् स्थि-रमूलत्वात् क्षारं दग्धं न शीर्य्यते। इदमालेपनं तत्र स-मग्रमवचारयेत्। अम्लकाञ्जिकवीजानि तिलान्मधुकमे-व च। प्रपिष्य समभागानि तेनैवमनुलेपवेत्। तिलकल्कःसमधूको घृताक्तो व्रणरोपणः। रसेनाम्लेन तीक्ष्णेन वी-र्य्योष्णेन च योजितः। आग्नेयेनाग्निना तुल्यः कथंक्षारः प्रशाम्यति। एवं चेत्मन्यसे वत्स! प्रोच्यमानं नि-बोध मे। अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत्। कटुकस्तत्र भूयिष्ठो लवणानुरसस्तथा। अम्लेन सह सं-युक्तः स तीक्ष्णलवणी रसः। माधुर्य्यं भजतेऽत्यर्थं ती-क्ष्णभावं विमुञ्चति। माधुर्य्याच्छममाप्नोति वह्निरद्भिरि-वाप्लुतः। तत्र सम्यग्दग्धे विकारोपशमो लाघवमनाम्रा-बश्च। हीनदग्धे तोदकण्डूजाद्ध्यानि व्याधिवृद्धिश्च। अतिदग्धे दाहपाकरागसावाङ्गमर्दक्लमपिपासामूर्च्छादुर्म्मरणं वा। क्षारदग्धव्रणन्तु यथादोषं यथाव्याधिचोपक्रमेत्। तथा नैतेषु क्षारकृत्याः। तद्यथा दुर्बलबालस्थविरभीगसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृ-द्धज्वरिप्रमेहीरःक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीवापवृत्तोद्वृ-त्तफलयोनयः। तथां मर्म्मशिरास्नायुधमनीसन्धितरुणा-[Page2370-b+ 38] स्थिसेवनीगलनाभीनखान्तरशोफस्रोतःस्वल्पमांसेपुच प्रदे-शेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात्। तत्र क्षारसा-ध्येष्वपि व्याधिषु शूनगात्रभस्थिशूलिनमन्नद्वेषिणं हृद-यसन्धिपीडोपद्रुतं क्षारो न साधयति”।

"https://sa.wiktionary.org/w/index.php?title=क्षारपाक&oldid=497953" इत्यस्माद् प्रतिप्राप्तम्