एकशेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशेष¦ पु॰ एकः शिष्यतेऽन्योल्युप्यते यत्र शिष--आधारेघञु।
“सरूपाणामेकशेष एकविभक्तौ” इत्यादिना पा॰ उक्तेवृत्तिभेदे। अस्ये समासत्वतदभावौ मतभेदे न सरलाया-मस्माभिर्दर्शितौ यथा सरूपाणां समानार्थानां समानानु-पूर्ब्बीकाणां च मध्ये एक एव शिष्यमाणस्तत्तत्समुदायव्यक्तिबोधकः” तत्र अपरांशीलुप्यते इति बोध्यम्। अय-ञ्चैकशेषः
“प्रत्यर्थशब्दनिवेशः” इति मते व्यक्तिभेदापेक्षयाद्वन्द्वप्राप्तौ तदपवादकः। एष च सुबुत्पत्तेः पूर्ब्बमेवोत्प-द्यतेऽतः पदनिमित्तकद्वन्द्वबाधकैत्येके। सुवुत्पत्त्यनन्तर-मुत्पद्यत इत्यन्ये। तत्र पदनिमित्तकत्वाभावे समासत्वंनास्तीत्यतः कृत्तद्धितसमासैकशेषेत्यादिवृत्तिभेदगणनेपृथन्निर्द्देशस्तथा च समासत्वामावेन पन्थानावित्यत्र नसमासान्त इति एकपक्षः। अस्य पदनिमित्तकत्वेऽपि गो-वलीवर्द्ध न्यायेन वृत्तिभेदगणने पृथग्ग्रहणं समासान्ताभा-वश्च तत्तत्सूत्रे एकशेषभिन्नत्वेन निवेशनान्नेति पक्षान्तरम्।
“विरूपाणामपि समानार्थानामिति” वार्त्ति॰ घटश्चकलसश्च घटौ कलसौ वा। तथा च समानानुपूर्वीकाणांभिन्नानुपूर्वीकाणाञ्च समानार्थानामेकशेषः। स प्रकारा-न्तरेण द्विविधः समानार्थकानां भिन्नार्थकानाञ्चेतिभेदात्। तत्र घटौ इत्यादौ समानार्थकानामेकशेषः। भिन्नार्थकैकशेषः यथा पितरौ श्वश्वरौ भ्रातरावित्यादि। एकः प्रधानं शेषोऽन्तः।

२ एकान्ते पु॰ बहु॰। अतिश-यिते त्रि॰।
“कृत्तद्धितसमासैकशेषस। नाद्यन्तधातवःवृत्तयः पञ्च” सि॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशेष/ एक--शेष m. the only remainder Naish. Ven2is. Katha1s.

एकशेष/ एक--शेष m. " the remaining of one " , (in Gr. )a term denoting that of two or more stems (alike in form and followed by the same termination) only one remains( e.g. the pl. वृक्षास्is the only remainder of वृक्षस्वृक्षस्वृक्षस्) Pa1n2. 1-2 , 64 ff.

"https://sa.wiktionary.org/w/index.php?title=एकशेष&oldid=493954" इत्यस्माद् प्रतिप्राप्तम्