अऋणी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अऋणी, [न्], त्रि, (न ऋणी, नञसमासः । अत्र अशब्दो न नञ्जातः, तथात्वे अनृणी इत्येव स्यात् । अपितु स्वप्रकृतिरेव ततश्च अञ्मात्रनिपातनात् नात्र सन्धिरिति ज्ञेयम् ।) अनृणी । अऋण- ग्रस्तः । अधारी । यथा, -- “दिवसस्याष्टमे भागे शाकं पचति यो नरः । अऋणी चाप्रवासी च स वारिचर मोदते” ॥ इति महाभारतं ।