अकडम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकडम¦ न॰ अ, क, ड, म, इत्यादिक्रमेण आद्यकोष्ठादौ वर्ण्णसमु-दायोऽस्त्यत्र अच्। ग्राह्यगोपालमन्त्रस्य शुगाशुभविचारो-पयोगिनि चक्रभेदे। तत्स्वरूपं यथा रुद्रयामले--
“रेखाद्वयंपूर्ब्बपरे मध्ये रेखाद्वयं लिखेत्। चतुष्कोणे चतूरेखाऽकडमंचक्रमण्डलम्। भ्रामयित्वा महावृत्तं निर्म्माय वर्णमालिखेत्। अकारादिक्षकारान्तान् क्लीवहीनान् लिखेत्ततः। एकैकक्र-मतो लेख्यान्मेषादिकवृषान्तकान्। वामावर्त्तेन गणयेत् क्रमशोवीरवल्लभ!। दक्षमार्गेण गणयेन्नामादिवर्णकादिकान्। मेषादितोहि नामान्तं क्रमशः मन्त्रपण्डितः। सिद्धसाध्य-सुसिद्धारीन् पुनः सिद्धादिकान् पुनः। नवैकपञ्चमे सिद्धःसाध्यः षड्दशयुग्मके। सुसिद्धस्त्रिमुनौ रुद्रे वेदाष्ट-द्वादशे रिपुः” इति। (क्लीववर्ण्णाः ऋ ॠ ऌ ॡ वर्ण्णाः)[Page0038-a+ 38]
“गोपालेऽकडमं स्मृतमिति” तत्रैवोक्तम्। एतच्च गोपाल-मन्त्रविषये सिद्धादिचक्रत्वेन व्यवह्रियते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकडम n. a kind of Tantrik diagram.

"https://sa.wiktionary.org/w/index.php?title=अकडम&oldid=483646" इत्यस्माद् प्रतिप्राप्तम्