अकर्त्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्ता, [ऋ] त्रि, (न कर्त्ता । नञ्समासः ।) अका- रकः । यथा, -- “चातुर्व्वर्ण्यं मया सृष्टं गुणकर्म्मविभागशः । तस्य कर्त्तारमपि मां विद्ध्यकर्त्तारमव्ययं” ॥ इति श्रीभगवद्गीतायां ४ अध्याये १३ श्लोकः ॥ (कर्म्मनिर्लिप्तः साङ्ख्योक्तः पुरुषः । कुकर्म्मकारी ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तृ¦ त्रि॰ कर्त्तृ + न॰ त॰। कर्त्तृभिन्ने कर्त्तृसदशे कारके[Page0039-a+ 38]
“अकर्त्तरि च कारके” पा॰। कर्तृभिन्ने, क्रियाशून्ये च
“पुरुषोऽकर्त्ता भोक्ता” चेति सांख्यमतम्।

"https://sa.wiktionary.org/w/index.php?title=अकर्त्तृ&oldid=193768" इत्यस्माद् प्रतिप्राप्तम्