अकालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालः, पुं, (न कालः, अप्रशस्तः कालो वा । नञ्समासः ।) असमयः । अप्रशस्तकालः । यथायोग्यकालातिरिक्तसमयः । अशुद्धकालः । यथा, -- गुरोरस्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्यास्ते द्वात्रिंशद्दिनं । तस्योदयात् परं बा- लत्वे पञ्चदशाहः । गुर्व्वादित्ययोगे स्थितिकालः दशत्रिंशद्दिनादिः । सिंहे गुरोः स्थितिकालः सम्बत्सरस्थूलः । अस्य विशेषः यदि माघपौर्णमास्यां मघानक्षत्रं प्राप्यते तदैवं भाव्यं । वक्रिगुरौ अष्टाविंशति- दिनं । पूर्ब्बराशावनागतातिचारिगुरौ एकवर्षः । अयमेव लुप्तसम्बत्सरः । पूर्ब्बराशिगन्त्रतिचा- रिगुरौ पञ्चचत्वारिंशत् दिनं । नीचस्थगुरोः स्थितिकालः संवत्सरस्थूलः । राहुयुक्तगुरोः स्थितिसमयः एकाब्दः स्थूलः । भृगोर्महास्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्य महास्ते द्विसप्ततिदिनं । तस्योदयात् परं बालत्वे दशाहः । एतत्त्रयं शीघ्रास्तमुच्यते ॥ भृगोः पादास्तात् प्राक् वृद्धत्वे दशाहः । तस्य पादास्ते द्वादशाहः । तस्योदयात् परं बालत्वे दिनत्रयं । एतत्त्रयं वक्रास्तमुदितं । मलमासे मासमेकं ॥ भानु- लङ्घितमासे क्षयमासे च तदेव ॥ भूक्म्पाद्य- द्भते सप्ताहः ॥ पौषादिचतुर्मासे एकदिन- चरणाङ्कितवर्षणे तद्दिनं । दिनद्वयचरणाङ्कित- वर्षणे दिनत्रयं । दिनत्रयचरणाङ्कितवर्षणे सप्ताहः ॥ दक्षिणायने षण्मासाः ॥ श्रीहरि- शयने चतुर्मासः ॥ चन्द्रसूर्य्यग्रहणे कर्म्मविशेषे एकत्रिसप्तदिनानि ॥ इति ज्योतिषतत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अकालः&oldid=109764" इत्यस्माद् प्रतिप्राप्तम्