अकृतज्ञः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञः, त्रि, (न + कृत + ज्ञा + क । न कृतज्ञः इति नञ्समासः ।) कृतघ्नः । हितास्मर्त्ता । उपकारामानी । उपकारहन्ता । यथा, -- “भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः । आत्मारामाः पूर्णकामा अकृतज्ञां गुरुद्रुहः” ॥ इति श्रीभागवतं ॥

"https://sa.wiktionary.org/w/index.php?title=अकृतज्ञः&oldid=109790" इत्यस्माद् प्रतिप्राप्तम्