अकृतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतम्, त्रि, (न + कृ + क्त ।) न कृतं । अनिष्पा- दितं । यथा, -- “कालातीतन्तु यत् कुर्य्यादकृतन्तद्विनिर्द्दिशेत्” इति स्मृतिः ॥ (नित्यः । प्रमाणाविषयः । (क्ली) मोक्षः । कारणं । (स्त्री) प्रकृतिविशेषः । यथा “अपां निम्नदेशगमनादिलक्षणा प्रकृ- तिः सा न केनचित्कृता” ।)

"https://sa.wiktionary.org/w/index.php?title=अकृतम्&oldid=109788" इत्यस्माद् प्रतिप्राप्तम्