अक्रमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रमः, त्रि, (न क्रमः । नञ् समासः । नास्ति क्रमो यस्य इति वा ।) क्रमरहितः । व्यतिक्रमः । यथा, -- “अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः” । इति माधवकरः ॥ (क्रमाभावः । क्रमविपर्य्ययः । यथा, -- ‘इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः’ इति श्टङ्गार- शतकम् ।)

"https://sa.wiktionary.org/w/index.php?title=अक्रमः&oldid=109820" इत्यस्माद् प्रतिप्राप्तम्