अक्षक्षेत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षक्षेत्र¦ न॰ अक्षनिमित्तं क्षेत्रम् शा॰ त॰। ज्योतिषोक्तेषुअक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु। तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा।
“भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः

१ खलुमूलमेतत्क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखा-नाम्॥ लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रि-भुजे

२ त्रिभज्या। कुज्या भुजः कोटिरपक्रमज्या कर्णो-ऽग्रका च त्रिभुजं तथेदम्

३ ॥ तथैव कोटिः समवृत्तशङ्कु-रग्रा भुजस्तद्धृतिरत्र कर्णः

४ । भुजोऽपमज्या समना चकर्णःकुज्योनिता तद्धृतिरत्र कोटिः

५ ॥ अग्रादिखण्डं कथिता चकोटिरुद्वृत्तना दोः श्रवणोऽपमज्या

६ । उद्वृत्तना कोटि-रथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या

७ ॥ खण्डंयदूर्द्ध्वं समवृत्तशङ्को र्यत्तद्धूतेस्तावथ कोटिकर्णौ। अग्रादि-खण्डं भुज

८ एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत्॥ ” क्षेत्राणि दर्शयेत्,
“तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पा-तादधो यावां ल्लम्बः क्षितिजसमसूत्रपर्य्यन्तः सा तत्र कोटिः,लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्या-ल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमप्यक्षक्षेत्रम्,इष्टाहोरात्रवृत्त यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्ति-कस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती चप्रत्यक्क्षितिजे अग्राग्रयोर्निवद्धं सूत्रमुदयास्तसूत्रम् अहो-रात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य च यदन्तरं साक्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरंसा कुज्या स भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डल-सम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः,अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं,[Page0042-b+ 38] तथा कृज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्वं सा कोटिः,उन्मण्डले क्रान्तिज्या स भुजः, समवृत्तशङ्गुः कर्णः, इदमक्ष-क्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डल-शङ्गुः स भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्म-ण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादि-खण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः,शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं स भुझः, कोटि-भुजाग्रयोरन्तरसूत्रं सा कुज्या स तत्र कर्णः, इदमक्षक्षेत्रं,तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्द्ध्वं खण्डंसा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्द्ध्वखण्डं स कर्णः,अग्रादिखण्डं स भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथि-तानि एवमन्यान्यपि भवन्ति।

"https://sa.wiktionary.org/w/index.php?title=अक्षक्षेत्र&oldid=193992" इत्यस्माद् प्रतिप्राप्तम्