अक्षतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षतः, त्रि, (न + क्षण् + क्त) अहिंसितः । इति मेदिनी । अखण्डितः । इति शब्दरत्नावली । (यथाह मनुः, -- “दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु स्थानेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्” ॥)

अक्षतः, पुं, यवः । इति मेदिनी । (यथा आश्वलायन- मृह्यसूत्रे, -- “अक्षतसक्तूनां नवं कलसं पूरयित्वा” ।) शस्यमात्रं । इति अमरटीकायां भानुदीक्षितः ॥ अक्षताः पुं भू म्नीति स्वामी ॥ (न क्षताः येषां ते इति अक्षताः । मुकुटस्तु अमरव्याख्यानावसरे आजाः पुं भूम्नितेऽक्षतमिति पठित्वा कर्म्मणि क्तः । क्षतं खण्डितं । न क्षतमक्षतमिति विगृह्य नित्य- पुंलिङ्गाः नित्यबहुवचनान्ताश्च लाजा अक्षतमिति व्याचख्यौ ॥ केचित्तु अखण्डतण्डुला अक्षतमि- त्याहुः ॥)

"https://sa.wiktionary.org/w/index.php?title=अक्षतः&oldid=109845" इत्यस्माद् प्रतिप्राप्तम्