अक्षयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयः त्रि, (नास्ति क्षयो यस्य सः । बहुब्रीहिः ।) क्षयरहितः । अव्ययः । कल्पान्तस्थायी । यथा -- “अक्षराणि फलान्याहुरमरांस्त्रिदशानिव । कल्पान्तस्थानसम्बन्धान्नजन्या नाशवर्ज्जिनः” ॥ इति मीमांसककारिका ॥ अपि च । भविष्य- पुराणं । “चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । योऽब्दमेकं न भुञ्जोत शिवार्च्चनपरो नरः ॥ यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां । तत् पण्यं सफलं तस्य शिवलोकञ्च गच्छति” ॥ इति तिथ्यादितत्त्वं ॥ * ॥ पापपुण्याक्षयजनक- योगविशेषः । यथा ज्योतिषे, -- “सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी । चतुर्थ्यङ्गारवारे तु अष्टमी च वृहस्पतौ ॥ अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः । षष्टिजन्मसहस्राणि प्रति जन्म तदक्षयं” ॥ इति तिथ्यादितत्त्वं ॥ (अनन्तः । अक्षयकालाभि- मानी । अः वासुदेवः तस्मिन् क्षयो निवासोऽस्य इति व्युत्पत्त्या ब्रह्मणिष्ठः ।)

"https://sa.wiktionary.org/w/index.php?title=अक्षयः&oldid=483862" इत्यस्माद् प्रतिप्राप्तम्