अक्षरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरः पुं, (न क्षरति । क्षर सञ्चलने । पचाद्यच् । यद्वा । अश्नुते । अशू व्याप्तौ । अशेः सरः ।) शिवः । विष्णः । इति शब्दरत्नावली । यथा महाभारते, -- “विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । अव्ययः परुषः साक्षी क्षेत्रज्ञोऽक्षर एव च” ॥ इति ।) (अजः । जीवः ।)

अक्षरः त्रि, (न क्षरतोति ।) अक्षरणीयः । अच्युतः । यथा, -- “तस्मै स विद्यानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमन्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तं तत्त्वतो ब्रह्मविद्यां” ॥ इति वेदान्तसारधृता श्रुतिः ॥ अपिच । “द्वाविमौ परुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते” ॥ इति श्रीभगवद्गीतायां १५ अध्याये १७ श्लोकः ॥ क्षरश्चाक्षरश्चेति द्वाविमौ पूरुषौ लोके प्र- सिद्धौ । तावेवाह । तत्र क्षरः पुरुषो नाम सर्व्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरी- राणि अविवेकिलोकस्य शरोरेष्वेव पुरुषत्व- प्रसिद्धेः, कूटो राशिः शिलाराशिः पर्व्वतैव एकदेशेष नश्यत्स्वपि निर्व्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता स तु अक्षरः पुरुष उच्यते विवेकिभिः । इति तट्टीकायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=अक्षरः&oldid=483877" इत्यस्माद् प्रतिप्राप्तम्