सामग्री पर जाएँ

अक्षि

विकिशब्दकोशः तः

सम्स्कृतम्

[सम्पाद्यताम्]

निर्वचनम्-

[सम्पाद्यताम्]

चक्षते:। अथवा अनक्ते:।अञ्जि: लेपने- यास्क: १.३
अक्षि: तथा विषय: इति परस्परं सन्निकर्ष: भवति तदा रूपज्ञानं भवति।सन्निकर्षे अक्षि: विषयं लिम्पतीव।अत: अञ्जिधातो: निर्वचनम्।‘आक्युलस’इतिल्याटिनशब्द: नेत्रवाचक: अस्ति।उच्चारदृष्ट्या तस्य ‘अक्षि:’ इत्यनेन साम्यम् इति राजवाडेमतम्।

अनुवादाः

[सम्पाद्यताम्]

[[ar: [[az: [[ca: [[cs: [[csb: [[cy: [[da: [[de: [[el: [[en: [[eo: [[es: [[et: [[eu: [[fa: [[fi: [[fj: [[fr: [[fy: [[ga: [[hi: [[hr: [[hu: [[hy: [[id: [[io: [[it: [[ja: [[ka: [[kk: [[kn: [[ko: [[ku: [[ky: [[li: [[lo: [[lt: [[mg: [[mk: [[ml: [[my: [[nah: [[nl: [[no: [[oc: [[pl: [[pt: [[ru: [[simple: [[sm: [[sr: [[sv: [[ta: [[te: [[th: [[tl: [[tr: [[uk: [[vi: [[vo: [[zh: [[zh-min-nan: [[zu:

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि क्ली, (अश्नुते अनेन । अशू व्याप्तौ संघाते च । अशोर्निदिति क्मिः । यद्वा । अक्षति । अक्षू व्याप्तौ । इन् ।) चक्षुः । इत्यमरः । चक्षुर्गोलकः । इति केचित् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।6

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि¦ न॰ अश्नुते विषयान् अश--क्सि। नेत्रे, इन्द्रियमध्येतस्यैव विषयदेशं प्राप्य विषयग्राहकत्वं सर्व्ववादिसस्मतमन्ये-षान्तु सर्वमते न तथात्वमतोऽस्य विषयव्यापकता। एतदन्तबहुव्रीहेः स्वाङ्गपरत्वे षजन्तता पद्माक्षः पद्माक्षी, अस्वाङ्ग-परत्वे अजन्तता दीर्घाक्षा वेणुयष्टिः, अव्ययीभावे अजन्तताप्रत्यक्षं समक्षमित्यादि तत्पुरुषे ऽस्वाङ्गपरत्वेऽजन्तता गवाक्षः। इदञ्च शब्दादिषु वाह्येन्द्रियग्राह्यविशेषगुणेषु मध्येरूपस्यैव ग्राहकतया तैजसं नेत्रगोलकेऽधिष्ठितं किञ्चित्वस्तु। तैजसत्वाच्चास्य सूर्य्यादिकिरणवदाशुदूरपर्य्यन्ता-नुधावनमागमनञ्च। तच्च परमाणुतुल्यमिति नैयायि-दयः तदपेक्षया स्थूलमिति सांख्यादयः। उभयमते-ऽपि न तस्य प्रत्यक्षयोग्यता। तदाधारगोलके द्वे वाह्येआन्तरणि च चत्वारि कोशवत् पटलानि, मांसादयः पञ्चांशाः,पक्ष्मादीनि पञ्च मण्डलानि षट् सन्धयश्च सन्ति। तद्विरणंयथा
“विद्याद्द्व्यङ्कुलबाहुल्यं स्वाद्भुष्ठोदरसम्मितम्। द्व्यङ्कुलंसर्व्वतः सार्द्ध्वं भिषग्नयनवुद्बुदम्॥ सुवृत्तं गोस्तनाकारंसर्ब्बभूतगुणोद्भवम्। पलं भुवो, ऽग्नितो, रक्तं, वातात् कृष्णं,सितं जलात्॥ आकाशादश्रुमार्गाश्च जायन्ते नेत्रवुद्बुदे। दृष्टिञ्चात्र तथा वक्ष्ये यथावादीद्विशारदः॥ नेत्रायामत्रि-भागन्तु कृष्णमण्डलमुच्यते। कृष्णात् सप्तममिच्छन्ति दृष्टिंदृष्टिविशारदाः॥ मण्डलानि च सन्धीर्श्च पटलानि च{??}चने। यथाक्रमं विजानीयात् पञ्च षट् च षडेव च॥ पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां (

५ ) मण्डलानि तु। अनुपूर्ब्बन्तुतन्मध्याश्चत्वारोऽन्ये यथोत्तरम्॥ पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः। शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः॥ ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः। द्वे वर्त्मपटलेविद्याच्चत्वार्य्यन्यानि चाक्षणि। जायते तिमिरं येषुव्याधिः परमदारुणः। तेजोजलाश्रितं वाह्यं तेष्वन्यत्पिशिताश्रितम्॥ मेदस्तृतीयं पटलमाश्रितन्त्वक्षि चापरम्। पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते इति शुश्रुते॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि¦ n. (-क्षि) The eye. n. अश् to pervade, and सि affix.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि [akṣi], n. [अश्नुते विषयान्; अश्-क्सि, अशेर्णित् Uṇ.3.155-6] अक्षिणी, अक्षीणि, अक्ष्णा, अक्ष्णः &c.

The eye (which grasps or sees objects); changed to अक्ष at the end of Bahuvrīhi comp; f. ˚क्षी when a limb of the body is indicated, as जलजाक्षी, otherwise दीर्घाक्षा वेणुयष्टिः; in Avyayī. comp. also it is changed to अक्ष, (समक्षम्, परोक्षम् &c.).

The number two; (-क्षिणी) the sun and moon. [cf. L. oculus; Ger. auge; Gr. okos, okkos, Zend ashi.] -Comp. -आमयः an eye-disease; यथा अक्ष्यामये मुद्गौदनं निवातशय्या चेति नित्यं शय्यासनं भोजनं च विकरोति । ŚB. on MS.1.3.32 and 1.6-81. -कम्पः twinkling; नाक्षिकम्पं व्यतिष्ठत R. 15.67. -कूटः-टकः, -गोलः, -तारा [ष. त.] the eyeball, pupil of the eye. -गत a. [अक्ष्णि गतः सर्वदा भावनावशात् अक्ष्यसन्नि- कृष्टो$पि उपस्थित इव़]

visible, present; न विभावयत्य- निशमक्षिगतामपि मां भवानतिसमीपतया Śi 9.81.2 rankling in the eye, an eye-sore, being a thorn in the eye, hated; ˚तोहमस्य हास्यो जातः Dk.159. -जाहः [ष. त.] the root of the eye. -पक्ष्मन्, -लोमन् n. [ष. त.] the eyelash. -पटलम् [ष. त.].

a coat of the eye.

a disease of the eye pertaining to this coat. -पद् a. Ved. falling into the eye, hence hurtful. न हि मे अक्षिपच्चना$च्छान्त्सुः पञ्च कृष्टयः Rv.1.119.6. adv. a little, as much as a mote (as much as could fall into the eye).-भू a. [अक्ष्णो भूर्विषयः] visible, perceptible, manifest; (hence) true, real. -भेषजम् [ष. त.] collyrium, a kind of balm (for the eyes). -जः (जम् also) N. of a plant (पट्टिकालोध्रवृक्ष) used to heal some varieties of the eyedisease. -भ्रुवम् [समाहारद्वन्द्व] the eye and the eyebrows taken collectively. -विकूणितम्, -विकूशितम् [अक्षणः विकूणि- तम् लज्जादिना सम्यक् प्रसाराभावात् संकोचो यत्र] a side-look, leer, a look with the eyelids partially closed. -श्रवस् serpent बभुरक्षिश्रवसो मुखे विशालाः Śi.2.44. -संविद् perception.-सूत्रम् the line of the eyes (with reference to idols. अक्षिसूत्रावसानं च तस्याधस्तात्पदान्तकम् Māna.9.2.92. -स्पन्दनम् eye twitching; Mu.4.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि n. (1. अश्Un2. )([instr. अक्ष्णाdat. अक्ष्णे, etc. , fr. अक्षन्, substituted for अक्षिin the weakest cases. Vedic forms are: abl. gen. अक्ष्णस्; loc. अक्षन्(once अक्षिणि!) ; du. nom. acc. अक्षीRV. , अक्षिणी, अक्ष्यौ, and अक्ष्यउAV. S3Br. and AitBr. ; instr. अक्षीभ्याम्; gen. अक्ष्योस्VS. , अक्ष्योस्and अक्षोस्(!) AV. ; pl. nom. acc. अक्षीणिAV. , अक्षाणिRV. ; ifc. अक्षis substituted See. 4. अक्ष]) , the eye

अक्षि n. the number two

अक्षि n. du. the sun and moon RV. i , 72 , 10 [ cf. Gk. ? , ? ; Lat. oculos ; A.S. aegh ; Goth. augo ; Germ. Auge ; Russ. oko ; Lith. aki-s.]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of रोहिणी and आनकदुन्दुभि. M. ४६. १२.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षि न.
आँख (‘अक्षि इव नु खलु वा एतत् स्त्रीणां यत् षोडशी’), जै.ब्रा. 1.174; 2.11०; कौषी.गृ.सू. 5.8.5।

"https://sa.wiktionary.org/w/index.php?title=अक्षि&oldid=483919" इत्यस्माद् प्रतिप्राप्तम्