अगुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु, क्ली, (न गुरु दुर्भरः अस्मात् इति । बहुब्रीहिः ।) शिंशपावृक्षः ॥ कालागुरु । स्व- नामप्रसिद्धसुगन्धिकाष्ठविशेषः । अगर इति ख्यातः । अस्य पर्य्यायः । वंशिकं १ राजार्हं २ लोहं ३ कृमिजं ४ जोङ्गकं ५ । इत्यमरः ॥ श्टङ्गजं ६ कृष्णं ७ लोहाख्यं ८ लघु ९ । इति रत्नमाला ॥ पीतकं १० वर्णप्रसादनं ११ अनार्य्यकं १२ असारं १३ कृमिजग्धं १४ काष्ठकं १५ । इति राजनिर्घण्टः ॥ अस्य गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं । लेपे रूक्षत्वं । व्रणकफवायुवान्तिमुख- रोगनाशित्वञ्च । इति राजवल्लभः राजनिर्घण्टश्च ॥ अगुरुर्वापुंसीति वोपालितः ॥ पुमान् इति सर्व्वा- नन्दः ॥ गन्धद्रव्यविशेषः । यथा, -- अगुरु प्रवणं लोहं राजार्हं योगजं तथा । वंशिकं कृमिजञ्चापि कृमिजग्धमनार्य्यकं ॥ अगुरूष्णं कटुत्वं च तिक्तं तीक्ष्णञ्च पित्तलं । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः” ॥ इति भावप्रकाशः ॥

अगुरुः, त्रि, (न गुरुः । नञ् समासः ।) गुरुभिन्नः । लघुः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु नपुं।

शिंशपा

समानार्थक:पिच्छिल,अगुरु,शिंशपा

2।4।62।2।4

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

 : शुक्लसारशिंशपा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अगुरु नपुं।

अगरु

समानार्थक:समार्थक,वंशका,अगुरु,राजार्ह,लोह,कृमिज,जोङ्गक

2।6।126।2।2

कालीयकं च कालानुसार्यं चाथ समार्थकम्. वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्.।

 : कालागुरु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अगुरु नपुं।

कालागुरु

समानार्थक:कालागुरु,अगुरु

2।6।127।1।2

कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्. यक्षधूपः सर्जरसो रालसर्वरसावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु¦ न॰ न गुरुर्यस्मात्। स्वनामप्रसिद्धे, अगुरुचन्दने
“धूपैश्चागुरुगन्धिभिरिति” शिंशपा वृक्षे (शिशु) च। गुरु-भिन्ने, उपदेशकशून्ये त्रि॰। गुरुवर्ण्णभिन्ने लघुवर्ण्णे पु॰[Page0048-b+ 38]
“अगुरुचगुष्कं भवति गुरू द्वौ घनकुचयुग्मे, शशिवदना-साविति” श्रुतबोधः। गौरवरहिते गौरवविपरीतलाघव-वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु¦ mn. (-रुः-रु)
1. A fragrant wood, aloe wood, or agallochum, (Aquilaria agallocha, Rox.)
2. Another tree which produces Bede llium, (Amyris agallocha.)
3. A timber tree, commonly Sisu, (Dalbergia sisu, Rox.) mfn. (-रुः-रुः-रू or -र्व्वी-रु) Light, not heavy. E. अ priv. and गुरु heavy.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु [aguru], a. [न. त.]

Not heavy,light.

(In prosody) Short.

Having no teacher.

One different from a teacher. -रु n. (m. also) [न गुरुर्यस्मात्]

The fragrant aloe wood and tree; Aquiluria Agallocha.

That which yields Bdellium, Amyris Agallocha.

The Śiśu tree (शिंशपा). -Comp. -शिंशपा [अगुरुः सारो यस्यास्ताद्दशी शिंशपा; मध्यमपदलो.] the Śiśu tree. -सारः a sort of perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुरु/ अ-गुरु mfn. not heavy , light

अगुरु/ अ-गुरु mfn. (in prosody) short as a short vowel alone or before a single consonant

अगुरु/ अ-गुरु mn. the fragrant Aloe wood and tree , Aquilaria Agallocha.

"https://sa.wiktionary.org/w/index.php?title=अगुरु&oldid=484030" इत्यस्माद् प्रतिप्राप्तम्