अग्निरेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरेतस्¦ न॰

६ त॰। अग्निशुक्रे, तज्जातत्वात् सुवर्णे चतत्कथा च प्रस्कन्नरुद्रशुक्रस्य अग्निसंक्रान्तस्याग्निना देवताप्रार्थनया गङ्गयामाहितस्य तया च वोढुमसमर्थया
“समु-त्ससर्ज्ज तं गर्भं मेरौ गिरिवरे तदेत्यनेन” मेरौ पातने कृतेतस्य तेजसैव मेरुस्थं सर्व्वं वस्तु सुवर्ण्णीकृतं यथोक्तमानु-शासनिके प॰ भा॰।
“तेजसा तस्य गर्भस्य भास्करस्येवरश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च। तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत” इति। अन्ते च
“तस्मात् सुवर्णं माङ्गल्यं रत्नानामुत्तमोत्तमम्। सहजंकार्त्तिकेयस्य वह्नेस्तेजः परं मतमिति”

८६ अध्याये।

"https://sa.wiktionary.org/w/index.php?title=अग्निरेतस्&oldid=194504" इत्यस्माद् प्रतिप्राप्तम्