अग्निष्टुत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निष्टुत्¦ पु॰ अग्निःस्तूयतेऽत्र स्तु--आधारे क्विप् षत्वम्। अग्निष्टोमस्य विकृतिभूते एकाहसाध्ये यागभेदे। सामसहिताभाष्ये संशयपूर्वकं तच्च कर्म्मान्तरमिति सायणा-क्षार्य्येण निर्णीतम् यथा।
“उक्त्वाग्निष्टुतमेतस्य वारव-[Page0060-b+ 38] न्तीय--साम हि। रेवतीष्वृक्षु कृत्वेति श्रुतं पशु-फलाप्तये। रेवत्यादिर्गुणः कर्म्म पृथग्वा पूर्ब्बवद् गुणः। रेवती--वारवन्तीय--सम्बन्धाख्यः पशु--प्रदः। साम्नो-ऽत्र फल--कर्म्मभ्यां सम्बन्धे वाक्य--भिन्नता। तेनीक्त-गुण--संयुक्तमन्यत् कर्मोच्यते फले”॥
“त्रिवृदग्निष्टोमस्तस्यवायव्यासु ऋक्षु एकविंशाग्निष्टोम--साम कृत्वा ब्रह्म-वर्चस--कामो यजेत” --इत्यस्य सन्निधौ श्रूयते--
“एतस्यैवरेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशु--कामोह्येतेनयजेत” इति।
“अस्यायमर्थः। प्रकृतौ तृतीयसवनेअर्भिव--पवमानस्योपरि यज्ञायज्ञीयं साम गीयते,तेन च साम्ना अग्निष्टोमयागस्य समाप्यमानत्वादग्नि-ष्ठोम सामेत्युच्यते, तच्च प्रकृतौ
“यज्ञायज्ञीयो वा अग्नये” इत्याद्याग्नेयीष्वृक्षु गीयते अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चस-कामेन वायव्यास्वृक्षु तत् साम गातव्यम्, तच्च प्रकृताविवैकविंश--स्तोम--युक्तम्। पशुकामस्य तु
“रेवतीर्नः सधमादे” इत्यादिषु रेवतीष्वृक्षु
“वारवन्तीयं” साम गायेदिति,तत्र रेवतीनामृचां वारवन्तीयनामकेन सास्रा यः सम्बन्धःसोऽयं पशु--फलायाग्निष्टुति विधीयते, एतस्यैवेति प्रकृत-परामर्शकेनैतच्छब्देनान्य--व्यावर्त्तकेनैवकारेण चाग्निष्टुतःसमर्प्यमाणत्वात् यथा पूर्ब्बाधिकरणे इन्द्रियफलाय प्रकृता-ग्निहोत्रे दधि--गुणोविहितः तद्वत्, इति प्राप्ते, ब्रूमः-विषमो दृष्टान्तः, दध्नोहोम--जनकत्वं न शास्त्रेण बोध-नीयं तस्य लोकतोऽवगन्तुं शक्यत्वात्। फल--सम्बन्धःएकएव शास्त्रबोध्यः इति न तत्र वाक्यभेदः, इह तुरेवत्यृगाधारकवारवन्तीय--साम्रोऽग्निष्टुत्--कर्म्म--साधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैक--बोध्यत्वाद् दुर्वारोवाक्य--भेदःतेन पशुफलकं यथोक्तगुण--विशिष्ट--कर्म्मान्तरमत्र विधी-यते। एतच्छद्बः एवकारश्च विधीयमान--कर्म्मान्तर--विषयतयायोजनीयौ इति”।
“यजेत वाश्वमेधेन स्वर्जिता गोसवेनवा। अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” इति स्मृतिः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निष्टुत्¦ f. (-ष्टुत्) An expiatory sacrifice. E. अग्नि and ष्टु to sacrifice, aff. क्विप् with तुक् added.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निष्टुत्/ अग्नि--ष्टुत् m. " laudatory of अग्नि" , the first day of the अग्निष्टोमsacrifice , one day of the सत्त्रपञ्चदशरात्रS3Br. etc.
अग्निष्टुत्/ अग्नि--ष्टुत् m. N. of a son of the sixth मनु, चाक्षुष(by नड्वला) VP. Hariv. ([ v.l. -ष्टुभ्]).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--produced by ब्रह्मा. भा., III. १२. ४०.
(II)--a son of चाक्षुष Manu. Br. II. ३६. ७९, १०६; M. 4. ४२.