सामग्री पर जाएँ

अग्न्युत्पात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पातः, पुं, (अग्नेः उत्पातः ।) आकाशादिषु अग्निविकारः । धूमकेतूल्कापातादिः । अग्नि- निष्ठोत्पातो वा । स तु मन्त्रादिद्वारा अग्ने- र्दाहशक्तिनिवारणं । तत्पर्य्यायः । उपाहितः २ । इत्यमरस्तट्टीका च ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पात पुं।

आकाशादिष्वग्निविकारः

समानार्थक:अग्न्युत्पात,उपाहित

1।4।10।1।3

सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः। एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ॥

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पात¦ पु॰ अग्निना दिव्यानलेन कृत उत्पातः (अनिष्ट-सूचकोपद्रवः) उद् + पत--घञ्

३ त॰। आकाशस्थानलविकारसूचितोपद्रवे, उल्कापातादावशुभसूचके, धूमकेतुकृत-विकारे च। स च नाभस उत्पातः उल्कादिरूपः पञ्चविधः धिष्ण्योल्काशनिविद्युत्ताराभेदात्। तेषां लक्ष-णादिकं फलसहितम् वृहत्संहितायामुक्तं

३३ अ॰ यथा
“दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः। [Page0063-a+ 38] धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः॥ उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः। विद्युदहोभिः षड्भिस्तद्वत्तारा विपाचयति॥ ताराफलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या। तिस्रःसम्पूर्णफला विद्युदयोल्काशनिश्चेति॥ अशनिः स्वनेनमहाता नृगजाश्वमृगाश्मवेश्मतरुपशुषु। निपतति विदा-रयन्ती धरातलं चक्रसंस्थाना॥ विद्युत्सत्वत्रासं जनयन्तीतटतटस्वना सहसा। कुटिलविशाला निपतति जीवे-न्धनराशिषु ज्वलिता॥ धिष्ण्या कृशाल्पपुच्छा धनूंषिदश दृश्यतेऽन्तराभ्यधिकम्। ज्वलिताङ्गारनिकाशा द्वौहस्तौ सा प्रमाणेन॥ तारा हस्तं दीर्घा शुक्ला ताम्राब्ज-तन्तुरूपा वा। तिर्यगधश्चोर्ध्वं वा याति वियत्युह्य-मानेव। उल्का शिरसि विशाला निपतन्ती वर्धते प्रत-नुपुच्छा। दीर्घा भवति च पुरुषा भेदा बहवो भवन्त्यस्याः। प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः। गो-धाहिधूमरूपाः पापा या चोभयशिरस्का॥ ध्वजझष-करिगिरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः। श्रीवत्सव-ज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः॥ अम्बरमध्याद्बह्व्योनिपतन्त्यो राजराष्ट्रनाशाय। बम्भ्रमती गगनोपरि विभ्र-ममाख्याति लोकस्य॥ संस्पृशती चन्द्रार्कौ तद्विसृता वासभूप्रकम्पा च। परचक्रागमनृपबध--दुर्भिक्षावृष्टिभयजननीपौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांश्वोः। उल्काशुभदा पुरतो दिवाकरविनिःसृता यातुः॥ शुक्ला रत्कापीता कृष्णा चोल्का द्विजादिवर्णाभा। क्रमशश्चैतान्हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः॥ उत्तरदिगादिपतिता विप्रा-दीनामनिष्टदा रूक्षा। ऋज्वी स्निग्धाखण्डा नीचोपगताच तद्वृद्ध्यै॥ श्यामा वारुणनीलाऽसृग्दहनासितभस्मनिभारूक्षा। सन्ध्यादिनजा वक्रादलिता च परागमभयाय॥ नक्षत्रग्रहधाते तद्भक्तीनां क्षयाय निर्दिष्टा। उदये घ्नतीरवीन्दू पौरेतरमृत्यवेऽस्ते वा॥ भाग्यादित्यधनिष्ठामूले-षूल्काहतेषु युवतीनाम्। विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु॥ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम्। क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते॥ कुर्वन्त्येताःपतिता देवप्रतिमासु राजराष्ट्रभयम्। शक्रोपरि नृपतीनांगृहेषु तत्स्वामिनां पीडाम्॥ आशाग्रहोपघाते तद्दे-श्यानां खले कृषिरतानाम्। चैत्यतरौ सम्पतिता सत्कृति-पीडां करोत्युल्का॥ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः। ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनो[Page0063-b+ 38] गोष्ठे॥ क्ष्वेडास्फोटितवादितगीतीत्क्रुष्टस्वना भवन्ति यदा। उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य॥ यस्याञ्चिरंतिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय। याचोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यरूपा॥ श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनाः। हन्त्यधोमुखीनृपान् ब्राह्मणानथोर्द्धृगा॥ वर्हिपुच्छरूपिणी लोकसङ्क्षयावहा। सर्पवत् प्रसर्पिणी योषितामनिष्टदा॥ हन्तिमण्डला पुरं छत्रवत् पुरोहितम्। वंशगुल्मवत् स्थिताराष्ट्रदोषकारिणी॥ व्यालसूकरोपमा विस्फुलिङ्गमालिनी। खण्डशोऽथ वा गता सस्वना च पापदा॥ सुरपतिचाप-प्रतिमा राज्यं नभसि विलीना जलदान् हन्ति। पवन-विलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा॥ अभिभवति यतः पुरं बलं वा भवति भयं तत एवपार्थिवस्य। निपतति च यथा दिशा प्रदीप्ताजयति रिपूनचिरात्तया प्रयातः”॥ तत्कारण-मुक्तं गर्गसंहितायाम्
“अतिलोभादसत्याद्वा नास्ति-क्याद्वाप्यधर्म्मतः। नरापचारान्नियतमुपसर्गः प्रवर्त्तते। ततोऽपराधान्नियतमपवर्जन्ति देवताः। ताः सृजन्त्यद्भुतां-स्तांस्तु दिव्यनाभसभूमिजान्। त एव त्रिविधा लोकेउत्पाता देवनिर्म्मिताः। विचरन्ति विनाशाय रूपैः संबो-धयन्ति च” इति। अनिष्टसूचकरूपभेदाश्च वृहत्संहिता-वाक्ये प्राक् दर्शिताः। तल्लक्षणं काश्यपेन सामान्यत उक्तम्
“वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला। पौरु-षेय प्रमाणेन उल्का नानाविधा स्मृतेति”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पात¦ m. (-तः) A fiery meteor, a falling star, a comet. E. अग्नि and उत्पात portent.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पात/ अग्न्य्-उत्पात m. a fiery portent Car.

अग्न्युत्पात/ अग्न्य्-उत्पात m. a conflagration Pa1rGr2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्न्युत्पात पु.
अगिन्जनित उत्पात सङ्कट (ऐसे अवसरों पर अनध्याय रखा जाता है) अ.वे.परि. 53.5.2; पार.गृ.सू. 2.11.2।

"https://sa.wiktionary.org/w/index.php?title=अग्न्युत्पात&oldid=484160" इत्यस्माद् प्रतिप्राप्तम्