अग्रदानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रदानी, [न्] पुं, (अग्रे दानं प्रेतोद्देशेन तिला- द्यर्पणं ग्राह्यत्वेन विद्यतेऽस्य अग्र + दान + विद्य- मानार्थे इन्) पतितब्राह्मणविशेषः । स च प्रेत- सम्प्रदानकषडङ्गतिलादिद्रव्यग्राही । यथा, -- “लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् । ग्रहणे मृतदानानामग्रदानी बभूव सः” ॥ इति ब्रह्मवैवर्त्तपुराणं ॥ तत्पर्य्यायः । आग्रहा- रिकः २ । इति स्मृतिः ॥

"https://sa.wiktionary.org/w/index.php?title=अग्रदानी&oldid=484180" इत्यस्माद् प्रतिप्राप्तम्