अघमर्षण

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षणम्, त्रि, (अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन अघ + मृष् + करणेल्युट् ।) पापनाशनं । सर्व्वपापध्वंसि- जप्यं । इत्यमरः ॥ (उत्पन्नपापनाशार्थं जप्ये मन्त्र- भेदे यथा सन्ध्यामन्त्रे द्रुपदादिवेत्यादि) अश्वमेध- यज्ञाङ्गावभृथस्नानमन्त्रः । वैदिकसन्ध्यान्तर्गत- मन्त्रकरणकाघ्रातजलप्रक्षेपरूपपापनाशकक्रिया- विशेषः । इति स्मृतिः ॥ तान्त्रिकसन्ध्यायान्तु, -- “षडङ्गन्यासमाचर्य्य वामहस्ते जलं ततः । गृहीत्वा दक्षिणेनैव संपुटं कारयेद्बुधः ॥ शिववायुजलपृथ्वीवह्निवीजैस्त्रिधा पुनः । अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया ॥ निःक्षिपेत् तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च । इडयाकृष्य देहान्तःक्षालितं पापसञ्चयं ॥ कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् । दक्षहस्ते च तन्मन्त्री पापरूपं विचिन्त्य च ॥ पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुञ्चरन्” ॥ इति तन्त्रसारः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षण वि।

अघमर्षणमन्त्रः

समानार्थक:अघमर्षण

2।7।47।2।1

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा। सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्.।

पदार्थ-विभागः : , अपौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षण¦ न॰ अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेनकर्म्माक्षमत्वात् सह्यतेऽनेन मृष--ल्युट्

६ त॰। उत्पन्न-पाषनाशार्थं जप्ये मन्त्रभेदे तच्च द्रुपदादिवेत्यादि, ऋतञ्चसत्यञ्चेत्यादि आपोहिष्ठेत्यादि सूक्तञ्च। तच्च अन्तर्जलेजप्यम् तत्फलञ्चोक्तं ब्राह्मणसर्वस्वे। यथा
“बौधा-यनः
“ऋतञ्च सत्यञ्चाद्यघमर्षणम् त्रिरन्तर्जले जपन्सर्वस्मात् पापात् प्रमुच्यते”। योगियाज्ञवल्क्यः
“हत्वालोकानिमांस्त्रीन् हि त्रिः पठेदघमर्षणम्। यथाश्वमेधा-बभृथमेवं तन्मनुरब्रवीत्” इति। हारीतः
“पातकोपपा-तकमहापातकानामेकतमसन्निपातेऽघमर्षणमेव जपेत्” इति। वृहद्विष्णुः
“यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः। तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्” इति। योगियाज्ञ-वल्क्यः
“स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः। अघ-मर्षणसूक्तेन अश्वमेधावभृत्समम्” इति। शङ्खः
“जलनि-मग्नः प्राणान् संयम्य त्रिरावृत्ताघमर्षणसूक्तेन स्नायात्नास्त्यघमर्षणात् परमन्तर्ज्जले” इति। गौतमः
“अन्तर्जलेऽघमर्षणं त्रिरावर्त्तयन् सर्वपापेभ्यो मुच्यते” इति। अत्रिः
“अपि चापसु निमज्जित्वा त्रिः पठेदघमर्षणम्। यथाश्वमेधावभृथं तथैतन्मनुरब्रवीत्” इति। वशिष्ठः
“अपिचाप्सु निमज्जानः त्रिः पठेदघमर्षणम्। यथाश्वमेधा-वभृथं तादृशं मनुरब्रवीत्” इति। आपस्तम्बः
“अपिचाप्सु निमज्जित्वा त्रिः पठेदघमर्षणम्”। यथाश्व-मेधयज्ञो हि मनुस्तादृशमाह नत्” इति। बौधायनः
“त्रिरात्रं चाप्युपवसन् त्रिरह्नाभ्युपयन्नपः। प्राणानम्बुनिसंयम्य त्रिः पठेदघमर्षणम्।
“यथाश्वमेधाबभृथ-मेवं तन्मनुरब्रवीत्” इति। योगियाज्ञवल्क्यः
“त्र्यहंचोपवसेद् यस्तु त्रिरह्नाभ्युपयन्नपः। मुच्यते पातकैःसर्वैः जत्वा त्रिरघमर्षणम्” इति। रहस्ये वृहन्मनुः
“मातरं भगिनीं गत्वा मातृस्वसारं स्नुषां सखीं सना-भ्याञ्च अगम्यागमनं कृत्वा अघमर्षणम् अन्तर्जले त्रिरा-वर्त्य एतस्मात् पापात् पूतो भवतीति”। तथा
“गुरुतल्पगमनंकृत्वा अधमर्षणमन्तर्ज्जले त्रिरावर्त्य एतस्मात् पापात् पूतो[Page0069-a+ 38] भवतीति”। अत्र पापगौरवमाकलय्य संयतेन मास्येकं यावत्जलमवगाह्याघमर्षणसूक्तं त्रिरावर्त्य स्नातव्यम्। तथा चलघुयमः
“महापातककर्त्तारश्चत्वारश्च विशेषतः। अग्निंप्रविश्य शुद्ध्यन्ति स्नात्वा वाघ इति क्रतौ। रहस्यकरणे चैवमासमभ्यस्य पौरुषम्। अघमर्षणञ्च वा सूक्तं शुध्येच्चान्त-र्जलेस्थितः” इति। वृहद्यमः
“अथ ब्रह्महत्यां कृत्वा प्राचींवा उदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेनेन्धनेनाग्निं प्रज्वा-ल्याघमर्षणं चाष्टसहस्रमावर्त्य जुहुयात् तस्मात् प्रापात् पूतोभवतीति”। हारीतश्च
“अन्तर्ज्जले त्रिरावर्त्य मुच्यतेब्रह्महत्ययेति”। वृद्धापस्तम्बः
“अकार्य्यकरणे चैव अभ-क्ष्यस्य च भक्षणे। अघमर्षणसूक्तेन पीत्वापः शुध्यते नरः”। वशिष्ठः
“मनसा पापं कृत्वा अघमर्षणं जपेत्” इति। वृद्धापस्तम्बः
“क्षत्रियागमने वैश्यागमने चैव तापसीम्। त्रिरावर्त्य विशुद्धः स्यात् शूद्रागाम्यघमर्षणम्” इति। तापसीमिति तापसीम् ऋचमित्यर्थः शङ्खलिखितौ
“ब्रह्महा
“त्रिरात्रिपोषितोऽन्तर्जलेऽधमर्षणं त्रिरावर्त्त-येत्” इति। याज्ञवल्क्यः त्रिरात्रोपोषितोजप्त्वाब्रह्महा त्वघमर्षणम्। अन्तर्जले विशुद्ध्येत्तु दत्त्वा गान्तुपयस्विनीम्” इति। प्रकाशविषये षौधायनः
“तीर्थं गत्वाततः शुचिरात्मा उदकान्ते स्थण्डिले उद्धृत्य सकृच्छिन्नवाससासकृत् पूर्णेन पाणिना आदित्याभिमुखः अघमर्षणमध्याय-मधीयीत इति”। षडङ्गन्यासं कृत्वा वामहस्ते जलं निधाय दक्षिणहस्तेनजलमाच्छाद्य ह यं रं लं वं इति त्रिरभिमन्त्र्य मूलमु-च्चरन् गलितोदकविन्दु भिस्तत्वमुद्रया सप्तधा मूर्द्धानमभ्युक्ष्यशेषजलं दक्षिणहस्ते समादाय तोजोरूपं ध्यात्वा इडयाकृष्यदेहान्तःपापं प्रक्षाल्य कृष्णवर्णं तज्जलं ध्यात्वा पिङ्गलयाविरेच्य पुरः कल्पितवज्रशिलायां फडिति मन्त्रेण पाप-पुरुषस्वरूपं तज्जलं निःक्षिपेदित्यघर्षणम् इति तन्त्र-सारे तान्त्रिकाघमर्षणमुक्तम् तत्प्रमाणं तु तत्रैवावगम्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षण¦ mfn. (-णः-णा-णं) An expiatory prayer: reciting mentally a parti- cular passage from the Vedas while a little water, in the palm of the right hand, is held to the nose; this forms a part of the daily ceremonies of the Brahmans. m. (-णः) The author of the passage recited upon the above occasion. E. अघ sin, and सृष to bear with, or to sprinkle, युच् aff.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षण/ अघ--मर्षण mfn. " sin-effacing " , N. of a particular Vedic hymn([ RV. x , 190 ])still used by Brahmans as a daily prayer Mn. Ya1jn5. Gaut.

अघमर्षण/ अघ--मर्षण m. N. of the author of that prayer , son of मधुच्छन्दस्

अघमर्षण/ अघ--मर्षण m. (plur.) his descendants Hariv. A1s3vS3r.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a तीर्थ at the foot of the Vindhyas. Here दक्ष performed तपस् and praised Hari with the हम्सगुःय। भा. VI. 4. २१ & ३५.
(II)--a कौशिक and a sage. फलकम्:F1:  Br. II. ३२. ११७; M. १४५. ११२.फलकम्:/F Not to have matrimonial alliance with विश्वामित्र and others. फलकम्:F2:  M. १९८. १२.फलकम्:/F [page१-019+ ३६]

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Aghamarṣaṇa : nt.: Name of a sacred text (Ṛgveda 10. 190. 1-3) composed by the sage Aghamarṣaṇa, son of Madhucchandas.

According to Manu, one who takes a dip into water and recites the Aghamarṣaṇa mantras thrice (a day) acquires the fruit of an Aśvamedha sacrifice; such a person drives away quickly his sin, is honoured, and all beings try to please him (api cainaṁ prasīdanti bhūtāni) 12. 148. 26-27; one who bathes in the water of the Kulyātīrtha and repeats the Aghamarṣaṇa mantras and, remaining undefiled, fasts for three nights gets the fruit of an Aśvamedha sacrifice 13. 26. 53; while observing the brahmacarya vow, if one slips (makes a fault) in sleep he should recite mentally the Aghamarṣaṇa mantras thrice; this way he burns the sin within himself which was the result of the quality of passion (magnaḥ svapne ca manasā trir japed aghamarṣaṇam//pāpmānaṁ nirdahed evam antarbhūtaṁ rajomayam) 12. 207. 13-14.

_______________________________
*1st word in right half of page p165_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षण न.
पापापनयन हेतु प्रयुक्त ऋग्मन्त्र 1०.19० (ऋषि अघमर्षणदृष्ट = रचित), गौ.ध.सू. 3.1.12; बौ.ध.सू. 2.1०.32; 2.5.12; (-वत्) क्रि.वि. ऋषि अघमर्ष की तरह, आ.श्रौ.सू. 24.9.13; (-सूक्त) न. पाप को हटाने के लिए प्रयुक्त मन्त्र, वैखा.ध.सू. 2.8.2।

"https://sa.wiktionary.org/w/index.php?title=अघमर्षण&oldid=484232" इत्यस्माद् पुनः प्राप्तिः