अङ्गविद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविद्या¦ स्त्री अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्याज्ञानसाधनम्। ज्ञानसम्पादके व्याकरणादिशास्त्रे। प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधकेज्योतिरङ्गे शास्त्रे च। सा च विद्या वृहत्संहितायां दर्शिता[Page0076-b+ 38] यथा
“अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं च दशना भुजौहस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत्। सशङ्खं कक्षांस-श्रवणगुदसन्धीति पुरुषे, स्त्रियां भ्रूनासास्फिग्वलिकटिसु-लेखाङ्गुलिचयम्॥ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मंजङ्घे नाभिः कर्णपाली कृकाटी। वक्त्रं पृष्ठंजत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं च॥ नपुंसकाख्यं च शिरो ललाटम् आश्वाद्यसंज्ञैर-परैश्चिरेण। सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतै-र्भग्नकृतैश्च पूर्बैः॥ स्पष्टे वा चालिते वापि पादा-ङ्गुष्ठेऽक्षिरुग् भवेत्। अङ्गुल्यां दुहितुः शोकं शिरो-धत्ते नृपाद्भयम्॥ विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिरनर्थदा भवेत्। स्यात्प्रियाप्तिरभिगृह्य कर्पटंपृच्छतश्चरणपादयोजितुः॥ पादाङ्गुष्ठेन विलिखेद्भूमिंक्षेत्रोत्थचिन्तया। हस्तेन पादौ कण्डूयेत्तस्य दासीमयाच सा॥ तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत्कचतुषास्थिभस्म-गम्। व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्यबन्धनम्॥ पिप्पलीमरिचशुण्ठिवारिदैर्लोध्रकुष्थवसनाम्बुजीरकैः। गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेणचिन्तनम्। स्त्रीपुरुषदोषपीडितसर्वाध्वसुतार्थधान्यतनया-नाम्। द्विचतुःषट्पदक्षितीनां विनाशतः कीर्त्तितैर्दृष्टैः॥ न्यग्रोधमधूकतिन्दु कजम्बूप्लक्षाम्रबदरिजातिफलैः। धनकन-कपुरुषलोहांशुकरूप्योदुम्बराप्तिरपि करगैः॥ धान्यपरि-पूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्ध्विकरौ। गजगोशुनांपुरीषं धनयुवतिसुहृद्विनाशकरम्॥ पशुहस्तिमहिषपङ्कज-रजतव्याघ्रैर्लभेत सन्दृष्टैः। अविधननिवसनमलयजकौशेयाभरणमङ्घातम्॥ पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता। मित्रद्यूतार्थभवा गणिकानृपसूति-कार्थकृता॥ शाक्योपाध्यायार्हतनिर्ग्रन्थिनिमित्तनिगमकै-वर्तैः। चौरचमूपतिबणिजां दासयोधापणस्थबध्यानाम्॥ तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम्। हृद्गतंपृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता॥ इच्छामि प्रष्टुंभण पश्यत्वार्यः समादिशेत्युक्ते। संयोगकुटुम्बोत्या लाभै-श्वर्योद्गता चिन्ता॥ निर्दिशेति ग{??}ते जयाध्वगा,प्रत्यवेक्ष्य मम चिन्तितं वद। आशु सर्वजनमध्यग त्वयादृश्यतामिति च बन्धुचौरजा॥ अन्तःस्थेऽङ्गे स्वजनउदितो वाह्यजे बाह्य एवं पादाङ्गुष्ठाङ्गलिकलनयादासदासीजनः स्यात्। जङ्घे प्रेष्यो भवति भगिनीनाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने[Page0077-a+ 38] पुत्रकन्ये॥ मातर जठरे, मूर्द्ध्नि गुरुं, दक्षिणवामकौ। बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत्॥ अन्तरङ्ग-मवमुच्य वाह्यगस्पर्शनं यदि करोति पृच्छकः। श्लेष्ममूत्र-शकृतस्त्यजन्नधः पातयेत्करतलस्थवस्तु चेत्॥ भृशमवना-मिताङ्गपरिमोटनतीऽप्यथवा, जनधृतरिक्तभाण्डमवलोक्य चचौरजनम्। हृतपतितक्षतास्मृतविनष्टविभग्नगतोन्मुषित-मृताद्यनिष्टरवतो लभते न हृतम्॥ निगदितमिदं यत्तत्सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समंरुदितक्षुतैः। अवयवमपि स्पृष्टान्तःस्थं दृढं मरुदाहरेद्अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत्॥ ललाट-स्पर्शनाच्छूकदर्शनाच्छालिजौदनम्। उरःस्पर्शात् षष्टि-कान्नं ग्रीवास्पर्शे च यावकम्॥ कुक्षिकुचजठरजानुस्पर्शेमाषाः पयस्तिलयवाग्वः। आस्वादयतश्चौष्ठौ लिहतोमधुरं रसं ज्ञेयम्॥ विस्पृक्के स्फोटयेज्जिह्वामम्ले वक्त्रंविकूणयेत्। कटुतिक्तकषायोष्णैर्हिक्केत्, ष्ठीवेच्च सैन्धवे॥ श्लेष्मत्यागे शुष्कतिक्तं तदल्पं, श्रुत्वा क्रव्यादं प्रेक्ष्य वामांसमिश्रम्। भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् भुक्तं तेने-त्युक्तमेतन्निमित्तम्॥ मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिंच स्पृष्ट्वा। गजमहिषमेषशूकरगोशशमृगमांससयुग्भुक्तम्॥ दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम्। गर्भिण्या-गर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्ने॥ पुंस्त्रीनपुंसकाख्येदृष्टेऽनुमिते पुरःस्थिते स्पृष्टे! तज्जन्म भवति पानान्न-पुष्पफलदर्शने च शुभम्॥ अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वास्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात्। मध्वाज्याद्यैर्हेमरत्न-प्रबालैरग्रस्थैर्वा मातृधात्न्यात्मजैश्च॥ गर्भयुता जठरे करगेस्याद् दुष्टनिमित्तवशात्तदुदासः। कर्षति तज्जठरं यदिपीठो त्पीडनतः करगे च करेऽपि। घ्राणाया दक्षिणेद्वारेस्पृष्टे मासोत्तरं वदेत्। वामे द्वौ कर्ण एवं मा द्विच-तुर्घ्नः श्रुतिस्तने॥ वेणीमूले त्रीन् सुतान् कन्यके द्वेकर्णे पुत्रान् पञ्च हस्ते त्रयं च। अङ्गुष्ठान्ते पञ्चकंचामुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्नेऽपि कन्याम्॥ सव्या-सव्योरुसंस्पर्शे सूते कन्यासुतद्वयम्। स्पृष्टे ललाटमध्यान्तेचतुस्त्रितनयान् वदेत्॥ शिरोललाटभ्रूकर्णगण्डहनुरदागलम्। सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम्॥ उरः कुचं दक्षिणमप्यसव्यं हृत् पार्श्वमेबं जठर कटिश्च। स्फिक् पायुसन्ध्यू रुयुगं च जानू जङ्घे च पदाविति कृत्ति-कादौ॥ इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभि-मताप्त्यै वीक्ष्य शास्त्राणि सम्यक्। विपुलमतिरुदारो[Page0077-b+ 38] वेत्ति यः सर्वमेतन्नरपतिजनताभिः पूज्यतेऽसौ सदैव॥ इति वृहत्संहितायामङ्गविद्या प्रकरणम्।
“वास्तुविद्या-ङ्गविद्या चेति” गर्गः। अङ्गविद्याया व्याख्यानो ग्रन्थःऋगयना॰ अण्। आङ्गविद्यस्तद्व्याख्यानग्रन्थे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविद्या/ अङ्ग--विद्या f. knowledge of lucky or unlucky marks on the body , Chiromantia Mn. vi , 50 , etc.

"https://sa.wiktionary.org/w/index.php?title=अङ्गविद्या&oldid=195002" इत्यस्माद् प्रतिप्राप्तम्