अङ्गहीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहीनः, त्रि, (अङ्गेन हीनः रहितः तृतीया तत्- पुरुषः । हा + कर्म्मणि क्तः ।) अवयवरहितः । अङ्गहानिविशिष्टः । (यथा, याज्ञवल्क्यः, -- “कालकर्म्मात्मवीजानां दोषैर्मातुस्तथैव च । गर्मस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ॥) अङ्गहीनं क्रियाहीनं विधिहीनञ्च यद्भवेत्” ॥ इति स्मृतिः ॥ कामदेवे पुंलिङ्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहीन¦ त्रि॰ अङ्गेन हीनम्। साधनीभूतद्रव्यकालाद्यङ्ग-करणशून्ये कर्म्मणि
“अङ्गहीनं क्रियाहीनं विधिहीनञ्चयद् भवेत्। सत् सर्व्वं पूर्णतामेतु भास्करस्य प्रसादतः” इति स्मृतिः।
“अङ्गहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्वि-जम्। यजमानमदक्षिण्यो नास्ति यज्ञसमो रिपुः” इतिपुरा॰। विकले, छिन्नदेहे च त्रि॰। अङ्गेन देहेन हीनःरहितः। कामे पु॰। तस्यानङ्गत्वात्तत्त्वम्। अङ्गं हीनंयथोचितप्रमाणादल्पं यस्य। हस्तपादाद्यववयवस्य यथो-चितपरिमाणाभावयुक्ते त्रि॰।
“धान्यचौरोऽङ्गहीनत्वमा-तिरेक्यञ्च मिश्रक इति” मनुः। वा परनिपातेऽहीनाङ्गो-ऽप्यत्रार्थे। अङ्गस्य हीनतायां कारणमुक्तं सुश्रुते।
“द्विहृदयाञ्च नारीं दौहृदिनीमाचक्षते। दौहृदविमान-[Page0078-b+ 38] नात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वानारी सुतं जनयति। तस्मात् सा यद्यदिच्छेत्तत्तस्यै दाप-येत्। लब्धदौहृदा हि वीर्य्यवन्तं चिरायुषञ्च पुत्त्रं नज-यति॥ भवन्ति चात्र॥ इन्द्रियार्थांस्तु यान्यान् सा भोक्तु-मिच्छति गर्भिणी। गर्भाबाधभयात्तांस्तान् भिषगाहृत्यदापयेत्। सा प्राप्तदौहृदा पुत्त्रं जनयेत गुणान्थितम्। अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम्॥ येषु येष्वि-न्द्रियार्थेषु दौहृदे वै विमानना। जायेत तत् सुतस्यार्त्ति-स्तस्मिंस्तस्मिंस्तथेन्द्रिये” इति॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहीन¦ mfn. (-नः-ना-नं) Mutilated, maimed, defective. E. अङ्ग a limb, हीन deprived of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहीन/ अङ्ग--हीन mfn. limbless , mutilated

अङ्गहीन/ अङ्ग--हीन mfn. incorporeal

अङ्गहीन/ अङ्ग--हीन m. कामदेव.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गहीन वि.
अंग से हीन, अङ्गों अथवा शरीर के दोष से युक्त, आप.श्रौ.सू. 7.12.2 (आलभ्य पशु); का.श्रौ.सू. 1.1.5 (अनुष्ठान के लिए अनुपयुक्त है); बौ.श्रौ.सू. 2.1.49।

"https://sa.wiktionary.org/w/index.php?title=अङ्गहीन&oldid=484333" इत्यस्माद् प्रतिप्राप्तम्