अचलकन्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलकन्या¦ स्त्री अचलस्य हिमाचलस्य कन्या। पार्वत्यां, साहि हिमाचलेन मेनायामुत्पादिता। तत्कथा च
“प्रसूति-रभवत्तस्य मेनायाः कन्यका सुतेति” शिवपुराणे प्रपञ्चेनदर्शिता। तन्मूलं कुमारे चोक्तम्
“अथावमानेन पितुः प्रयुक्तादक्षस्य कन्या भवपूर्ब्बपत्नी। सती सती योगविसृष्टदेहातां जन्मने शैलबधूं प्रपेदे। सा भूधराणामधिपेनतस्यां समाधिमत्यामुदपादि भव्येति” इति अचलसुता-दयोप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=अचलकन्या&oldid=195178" इत्यस्माद् प्रतिप्राप्तम्