अचेतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतनः, त्रि, (नास्ति चेतना ज्ञानं यस्य स बहु- व्रीहिः) चेतनारहितः । चैतन्यशून्यः । अज्ञानः । यथा, -- “कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु” । इति मेघदूतकाव्यं ॥ सेन्द्रियं चेतनं द्रव्यं निरि- न्द्रियमचेतनं । इति चरकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतन¦ त्रि॰ चेतना ज्ञानम् न॰ ब॰। चेतनाशून्ये। चित-ल्यु न॰ त॰। ज्ञानविशिष्टभिन्ने। ज्ञानञ्च द्विविधं विष-याकारमनोवृत्तिरूपं तत्फलितचैतन्यरूपञ्च तत्र वृत्तिरूपंज्ञानं चित्तस्यैव धर्म्मः
“कामः संकल्पो विचिकित्सा श्रद्धाऽ-श्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्व्वं मन एवेति” श्रुतौतस्य चित्तधर्म्मत्वावगमात्। द्वितीयं तदुज्ज्वलितचैतन्यमात्म-धर्म्मः। प्रकाशरूपचैतन्यस्य सर्वदा स्थितावपि वृत्तिसह-कारेणैव तद्गताज्ञाननिवारणे चैतन्यं समुज्ज्वलति नान्यथाअतएव
“बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” इत्युक्तमितिवेदान्तिनः। सांख्यास्तु विषयोपरक्ता वृत्तिश्चितौ प्रति-विम्बति तेनैव विषयावभासः
“तस्मिंश्चिद्दर्पणे स्फारेसमस्ता वस्तुदृष्टयः। इमास्ताः प्रतिविम्बन्ति सरसीव तट-द्रुमा” इति मन्यन्ते। नैयायिकास्तु सांख्यवेदान्तिमतसिद्धंयत् वृत्तिरूपं ज्ञानं तत्स्थानीयमात्मनश्चैतन्यमुररीचक्रुः। तादृशवृत्तौ तत्स्थानीयज्ञाने च आत्ममनःसंयोगादयःकारणानि। आभ्यन्तरसुखादिविषयग्रहणे मनःकरणम्,इन्द्रियाणि तु स्वस्व{??}ह्यविपयग्रहणे करणानि,
“इन्द्रि-[Page0084-b+ 38] यार्थसन्निकर्षोत्पन्न ज्ञान प्रत्यक्षमिति” गौतमसूत्रे
“प्रति-विषयाध्यवसाय इति” सांख्यसूत्रे च तथैव स्वस्वविषयेष्वि-न्द्रियाणां ग्राहकता उक्ता। तच्च तत्तच्छब्दावसरे दर्शयि-ष्यते। एवञ्च आभ्यन्तरे सुखादौ मन इव, वाह्येषु शब्दा-दिषु श्रोत्रादीनि असाधारणकारणानि। मनस्तु वाह्येषुसर्वत्र साधारणकारणमिति भेदः। एवञ्च ज्ञानकारणेन्द्रि-यशून्ये एवाचेतनशब्दस्य प्रवृत्तिः। अतएवोक्तं
“सेन्द्रियंचेतनं द्रव्यं निरिन्द्रियमचेतनमिति”। एवञ्च वृक्षादीना-मपि अन्तःकरणादिमत्त्वमस्त्येव। अन्यथा सुखदुःखानुभवोन स्यात्। तेषां हि खकर्म्मानुसारिदुःखभोगार्थमेव पापेनैवस्थावरत्वप्राप्तिः। अतएव
“महापातकजान् घोरान्नरकान् प्राप्य दारुणान्। कर्मक्षयात् प्रजायन्ते महापात-किनस्त्विह” इत्युपक्रम्य
“तृणगुल्मलतात्वञ्च क्रमशोगुरुतल्पगः” इति याज्ञवल्क्येन चेतनस्यैव पापावशेष-भोगार्थं तृणादिरूपेण जन्मोक्तम्
“शरीरजैः कर्म्मदोषैर्याति-स्थावरतां नर” इति च सामान्यतः शारीरिकपापात्वृक्षादिरूपस्थावरजन्म तेनैवोक्तमतस्तेषां दुःखभोगर्थमेववृक्षादिरूपत्वप्राप्तौ इन्द्रियाभावे कथङ्कारं ते दुःखमनुभ-वेयुरित्यवश्यं तेषु इन्द्रियादिमत्त्वमस्त्येव। अतएव पद्मंसरोऽन्तर गच्छति, शाखा च्छिन्नापि चेतनसंयोगात् पुनःप्ररोहतीत्युपलभ्यते। अतएव च श्रुतौ
“अथ जीवो यांजहाति सा शुष्यती” त्युक्तम्। तेन तेषां जीवसंबन्धोऽस्त्येवकिन्तु विशिष्टचेतनाशून्यत्वादेव तेषु अचेतनत्वव्यवहार इतिभेदः। पदार्थादर्शे
“देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्ति-भेदतः। उद्भिज्ज ऊष्मजोऽण्डोत्थश्चतुर्थस्तु जरायुज” इतिस्थावराणां देहसम्बन्ध उक्तः।
“चेतनाधिष्ठिते भोगायतन-निर्म्माणमन्यथा पूतिभावप्रसङ्ग” इति सांङ्ख्ये च चेतन-सम्बन्धे एव भोगायतनरूपदेहोत्पत्तिरुक्ता। तेषाञ्च भोगा-यतनदेहवत्त्वेऽपि सर्वेन्द्रियस्थानगोलकादेरभावात् न दर्श-नादि किन्तु त्वाचप्रत्यक्ष घ्राणजप्रत्यक्ष च भवत्येव अतएवअग्न्यादिखरतरकिरणस्पर्शे तेषां शुष्कता, ओषधि-विशेषजधूमादिसम्पर्के च तद्घ्राणात् पुष्पफलोत्पत्तिः। अत एव तेषां द्वीन्द्रियत्वेन व्यवहारः यथोक्तम्
“पञ्चे-न्द्रिया मनुष्याद्याः सर्पाद्याश्चतुरिन्द्रियाः। त्रीन्द्रियाःकृमिकीटाद्या द्वीन्द्रिया वृक्षजातय” इति। मनसोविद्यमानत्वेऽपि हृदयरूपविशिष्टस्थानाभावात् न स्पष्ट-मवबोधः। सुश्रुते हि हृदयस्थानमुपवर्ण्य
“तद्धृदयंविशिष्टचेतनाश्रयमित्युक्तम्” तेन तेषां विशिष्टचेतनाश्रय-[Page0085-a+ 38] हृदयस्थानशून्यत्वात् विशिष्टचेतनावत्त्वं नास्ति सुख-दुःखानुभवमात्रं तु तेषां जायते एवेति विशेषःतेनैव स्वस्वकर्म्मफलानुरूपदुःखानुभवात् स्वस्वकर्म्मफलभाक्-त्वम् इति सुस्थितम्। चेतनाशून्ये पदार्थमात्रे त्रि॰।
“अचेतनं चेतनावदिव लिङ्गमिति” सा॰ का॰। तत्तद्विशेषज्ञानशून्ये च।
“तन्तु दुःखाभिसन्तप्तं विल-पन्तमचेतनमिति पुरा॰। अत्र दुःखानुतप्तत्वेनतदनुभवस्योक्तेः तथाभूतेऽपि चेतने अचेतनत्वोक्तिःविवेकज्ञानशून्यत्वपरत्वेनैव, एवमन्यत्रापि।
“अहङ्कारलयेसुप्तौ भवेद्देहोऽप्यचेतन” इत्युक्तिस्तु देहस्य चैतन्यप्रकाशा-वच्छेदकतया, जागरे स्वप्ने च चैतन्यमुपचर्य्य सुषुप्तौअवच्छेद्याहङ्काररूपमनसो लयात् कथमवच्छेदकत्वं?स्यादित्यतीऽचेतनत्वमित्येवंपरा। अन्यथा
“शरीरस्य नचैतन्यं मृतेषु व्यभिचारतः” इत्युक्तेः देहे सदाचैतन्याभावस्य सिद्धत्वात् सुषुप्तौ तथात्वकथननर्थकं स्यात्। सुषुप्तावपि इन्द्रियाणां मनसश्च विशिष्टव्यापारराहित्येनलयत्वोपचारः किन्तु आत्मनि तदापि चैतन्यमस्त्येव।
“आनन्दभुक् चेतोमुखः प्राज्ञ” इति श्रुतेः सुखमहमस्वाप्सं नकिञ्चिदवेदिषमिति” सुप्तोत्थितस्य परामर्शाच्च आनन्दा-नुभवस्य तत्रापि सत्त्वात् सुतरां देहस्य तदनुभवज्ञानाव-च्छेदकत्वमस्त्येवेति विशेषः। विस्तरस्तु सुषुप्तिशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतन¦ mfn. (-नः-ना-नं) Insensible, unconscious, devoid of reason or feeling. E. अ neg. चेतना consciousness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतन [acētana], a. [न. ब.] Inanimate, not sentient, irrational; चेतन ˚नेषु Me.5; ˚नं ब्रह्म inanimate Brahman; ˚नं नाम गुणं न लक्षयेत् Ś.6.13 destitute of life, lifeless (object &c.); ˚नेष्वपि चेतनावदुपचारः Mbh.

Not conscious, insensible; senseless; निराशा निहते पुत्रे दत्ता श्राद्ध- मचेतना Rām.6.92.55. बुद्धिशतमचेतने नष्टम् H.2.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतन/ अ-चेतन mfn. without consciousness , inanimate

अचेतन/ अ-चेतन mfn. unconscious , insensible , senseless , fainting , etc.

"https://sa.wiktionary.org/w/index.php?title=अचेतन&oldid=484454" इत्यस्माद् प्रतिप्राप्तम्