अच्युतावास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युतावासः, पुं, (ओष्यते वासः क्रियतेऽत्र आ + वस् + अधिकरणे घञ् यद्वा अच्युतस्य आवासः । ‘अश्वत्थः सर्व्ववृक्षाणां देवर्षीणाञ्च नारदः’ इति भगवद्गीतायाम् ।) अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युतावास¦ पु॰ अच्युतेन ओष्यतेऽत्र आ--वस--आधारे घञ्

६ त॰। अश्वत्थवृक्षे।
“अश्वत्थः सर्ववृक्षाणामि” त्युक्ते-स्तस्य तत्रोपस्यत्वात्तदावासत्वम्।

"https://sa.wiktionary.org/w/index.php?title=अच्युतावास&oldid=484481" इत्यस्माद् प्रतिप्राप्तम्