अजपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपा, स्त्री, (न जप्यते नोच्चार्य्यतेऽसौ अपितु श्वास- प्रश्वासयोर्गमनागमनागमनाभ्यां सम्पाद्यते जप् + घ- ञर्थे कः स्त्रियां टाप् नजपा नञ्समासः ।) हंसमन्त्रः । यथा, -- “वियदर्द्धेन्दुललितस्तदादिसर्गसंयुतः । अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः” ॥ * ॥ अस्य देवतार्द्धनारीश्वरमूर्त्तिः । यथा, -- “उद्यद्भानुस्फुरिततडिंदाकारमूर्द्ध्वाम्बिकेशं पाशाभीतिं वरदपरशुं संदधानं कराब्जैः । दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु नश्चन्द्रचूडं त्रिनेत्रं” ॥ इति तन्त्रसारः ॥ * ॥ स्वाभाविकनिःश्वासप्र- श्वासरूपेण जीवजप्यहंसमन्त्रः । तथाच दक्षिणामूर्त्तिसंहितायां । “अथ वक्ष्ये महेशानि प्रत्यहं प्रजपेन्नरः । मोहबन्धं न जानाति मोक्षस्तस्य न विद्यते ॥ श्रीगुरोः कृपया देवि ज्ञायते जप्यते यदा । उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत् ॥ उच्छ्वासैरेव निःश्वासैर्हंस इत्यक्षरद्वयं । तस्मात् प्राणस्य हंसाख्य आत्माकारेण संस्थितः ॥ नाभेरुच्छ्वासनिःश्वासात् हृदयाग्रे व्यवस्थितः । षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता ॥ षष्टिनाड्या ह्यहोरात्रं जपसंख्याक्रमो मतः । एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ॥ जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं परां । उत्पत्तिर्जपमारम्भो मृत्युस्तत्र निवेदनं ॥ विना जपेन देवेशि जपो भवति मन्त्रिणः । अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी” ॥ अन्यत्रापि । “षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिं । एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्व्वदा” ॥ * ॥ सन्ध्यावन्दनहीना । इति महाभारतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपा¦ स्त्री प्रयत्नेन न जप्या अप्रयत्नोच्चारितत्वात् जप-कर्म्मणि अच्। श्वासप्रश्वासयोः वहिर्गमनागमनाभ्याम्अक्षरनिष्पादनरूपेजपे, स च हंसः, सोहमित्याकारस्यैव,[Page0089-b+ 38] तदाकारमन्त्रे च।
“उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम्तस्मात् प्राणश्च हंसाख्य आत्माकारेण संस्थितः। नाभे-रुच्छ्वस्य निश्वासात् हृदयाग्रे व्यवस्थितः। षष्टिश्वासैर्भवेत् प्राणः षट् प्राणानाडिका मता। षष्टिर्नाड्यस्त्वहोरा-त्रम् जपसंख्याक्रमोमतः। एकविंशतिसाहस्रं षट्शता-धिकमीश्वरि!। जपति प्रत्यहं प्राणी सान्द्रानन्दमयींपराम्। विना जपेन देवेशि! जपो भवति मन्त्रिणः। अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनीति” तन्त्रम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपा/ अ-जपा f. the mantra or formula called हंस(which consists only of a number of inhalations and exhalations).

"https://sa.wiktionary.org/w/index.php?title=अजपा&oldid=484522" इत्यस्माद् प्रतिप्राप्तम्