अजशृङ्गी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजशृङ्गी, स्त्री, (अजस्य छागस्य श्टङ्गमिव फलं यस्याः सा स्त्रियां ङीप्) वृक्षविशेषः । गा- डरशिङ्गी मेढाशिङ्गी । इति ख्याता । तत्प- र्य्यायः । विषाणी २ । इत्यमरः ॥ विषाणिका ३ चक्रश्रेणी ४ अजगन्धिनी ५ मौर्व्वी ६ नेत्रौ- षधी ७ आवर्त्तिनी ८ । इति रत्नमाला ॥ मेष- श्टङ्गी ९ वर्त्तिका १० सर्पदंष्ट्रिका ११ चक्षुष्या १२ तिक्तदुग्धा १३ पुत्त्रश्टङ्गी १४ कर्णिका १५ । अस्या गुणाः । कटुत्वं तिक्तत्वं । कफार्शःशूलशोथश्वास- हृद्रोगविषरोगकासकुष्ठनाशित्वं । चक्षुर्हितका- रित्वञ्च ॥ तत्फलस्य गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं कफवायुनाशित्वं । जठरानलरुचिकारित्वं । हृद्यत्वं । लवणाम्लरसत्वञ्च । इति राजनिर्घण्टः ॥ (यथा सुश्रुते, -- “अजगन्धाश्वगन्धा च काला सरलया सह । एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोथहृत्” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजशृङ्गी स्त्री।

अजशृङ्गी

समानार्थक:अजशृङ्गी,विषाणी

2।4।119।2।1

गोधापदी तु सुवहा मुसली तालमूलिका। अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजशृङ्गी¦ स्त्री अजस्य मेषस्य शृङ्गमिव फलमस्याः व॰। (गाडलशिङ्गा) इति प्रसिद्धे मेषशृङ्गतुल्यफलवत्यां मेष-शृङ्ग्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजशृङ्गी¦ f. (-ङ्गी) A plant; described as a milky and thoray plant, with a fruit of a crooked figure, like a ram's horn, and used as a medi- cine for the eyes; vulg, Me4r'a Sri4ngi, and Kankara Sri4ngi. See कर्क्कटशृङ्गी। E. अज a ram, and शृङ्गी a horn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजशृङ्गी/ अज--शृङ्गी f. " goat's horn " , the shrub Odina Wodier , used as a charm and as a remedy for sore eyes AV. (its fruit resembles a goat's horn).

"https://sa.wiktionary.org/w/index.php?title=अजशृङ्गी&oldid=195416" इत्यस्माद् प्रतिप्राप्तम्