अजिह्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्वः, पुं, (नास्ति जिह्वा यस्य सः) भेकः । इति त्रिकाण्डशेषः ॥ जिह्वारहिते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्व¦ पु॰ जि--वन् हुक् च जिह्वा रसना सा नास्ति यस्यब॰। भेके। तेषां जिह्वाशून्यत्वमुक्तं भारते आनु॰।
“उवाच देवान् मण्डूको रसातलतलोत्थितः। रसातलतलेदेवा! वसत्यग्निरिति प्रभो!। सन्तापादिह सम्प्राप्तः पावकप्रभवादहम्। स संसुप्तो जले देवा! भगवान् हव्यवाहनः। अपः सं सृज्य तेजोभिस्तेन सन्तापिता वयम्। तस्य दर्श-नमिष्टं वो यदि देवा! बिभावसोः। तत्रैनमधिगच्छध्वंकार्य्यं वो यदि वह्निना। गम्यतां साधयिष्यामो वयं ह्यग्नि-भयात् सुराः!। एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्। हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्। शशाप सतमासाद्य न रसान् वेत्स्यसीति वै। तं वै संयुज्य शापेनमण्डूकं त्वरितो ययौ। अन्यत्र वासाय विभुर्न चात्मा-नमदर्शयत्। देवास्त्वनुग्रहञ्चक्रुर्मण्डूकानां भृगूत्तम!। यत्तच्छृणु महाबाहो! गदतो मम सर्वशः। अग्निशापाद-जिह्वापि रसज्ञानवहिष्कृताः। सरस्वतीं बहुविधां यूय-ञ्चीच्चारयिष्यथ। विलवासगतांश्चैव निराहारानचेतसः। गतासूनपि संशुष्कान् भूमिः सन्धारयिष्यति। तमोघना-यामपि वै निशायां विचरिष्यथ इति”। जिह्वाशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्व¦ mfn. (-ह्वः-ह्वा-ह्वं) Tongueless, having no tongue. m. (-ह्वः) A frog. E. अ neg. and जिह्व from जिह्वा a tongue.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्वः [ajihvḥ], [न. ब.] A frog (which is supposed to have been deprived of its tongue by the curse of Agni whom frogs had offended.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्व/ अ-जिह्व mfn. tongueless

अजिह्व/ अ-जिह्व m. a frog L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्व वि.
(न विद्यते जिह्वा यस्य)जिह्वारहित (यथा अजिह्वे अन्नं दद्यात् तादृक् तत् तस्मात् समिद्वत्येव अनादिष्ट उपसमाधाय एव होतव्यम्), बौ.श्रौ.सू. 24.8ः192ः7।

"https://sa.wiktionary.org/w/index.php?title=अजिह्व&oldid=484590" इत्यस्माद् प्रतिप्राप्तम्